________________
तत्त्वसार।
उपादानासमाने पदेशे जातिनिरन्तरम् । रवेर्देशान्तरव्यास्या ज्वालादेरिव गम्यते ॥ १६१८॥ स्थिरात्मनो विशेषत्वानान्यथेयं प्रसज्यते ।
तस्य देशान्तरमातिः शक्तिस्वन्या निराकृता ॥१६१९॥ . अनेनानुमानान्तर्भावमाह । तथाहि-यस्य यस्य देशान्तरप्राप्तिरुपलभ्यते, तस्य खोपादानकारणदेशपरिहारेण जातिः, यथा ज्वालादेर्देशान्तरं प्राप्नुवतः, देशान्तरप्राप्तिश्च रवेरिति स्वभावहेतुः । न चायमनैकान्तिकः, यतः स्थिरात्मन एकरूपस्य भावस्य नेयं देशान्तरप्राप्तिर्युक्ता, पूर्वदेशाप्रतिनियतस्वभावापरित्यागात् । त्यागे वाऽपूर्वोत्पत्तिरेवेति । इदमेव बाधकं प्रमाणम् । स्यादेतच्छक्तौ साध्यायामियमपत्तिरुदाहृता, नोत्पत्तौ, तत्कथमस्या अर्थापत्तेरनुमानान्तर्भाव उच्यत इत्याह-शक्तिस्त्वन्या निराकृतेति ॥ १६१८ ॥ १६१९ ॥ पीनो दिवेत्यादौ श्रुतार्थापत्त्युदाहरणे प्राह-पीन इत्यादि ।
पीनो दिवा न भुते चेत्यस्मिन्नर्थे न निश्चयः।
द्वेषमोहादिभिर्योगादन्यथाऽपि वदेत्पुमान् ॥ १६२० ॥ अनेन शाब्दप्रमाणपूर्वकत्वस्यासिद्धतामाह ॥ १६२० ॥ स्यादेतनहि वाक्येनार्थगतिमपेक्ष्य वाक्यान्तराक्षेपः क्रियते । किं तर्हि ?। केवलेनैव । तच्च प्रत्यक्षतः सिद्धमेवेत्याह-अर्थगत्यनपेक्षेणेति ।
अर्थगत्यनपेक्षेण यदि वाक्यान्तरं पुनः।
सार्थमाक्षिप्यते तेन स्यादाक्षेपो वचोन्तरे ॥ १६२१ ॥ अर्थगति पेक्ष्यत इत्यर्थगत्यनपेक्षं वाक्यं, तेन केवलेन वाक्यमात्रेण यदि सार्थक वाक्यान्तरमाक्षिप्यते, तदा स्यादाक्षेपो वचोऽन्तरे-रात्रिभोजनवाक्यादन्यस्यापि वाक्यान्तरस्साक्षेपः प्राप्नोति । सम्बन्धरहितत्वेनाविशेषात् । अथ वस्तुप्रतिबन्धादर्थमाक्षिपतीत्यर्थगत्यपेक्षणे तदोषः ॥ १६२१ ॥ अथेत्यादिना-पारामिप्रायमाशङ्कते ।
अथोपगमरूपेण तत्रार्थगतिरिष्यते ।
प्रमाणान्तरतो यद्वा भवत्वर्थगतिस्ततः ॥ १६२२ ॥ अथ माभूदतिप्रसङ्ग इति न्यायादर्थगतिमपेक्ष्य परोपगमनरूपेणार्थगतिरिष्यते,