________________
पञ्जिकासमेतः ।
४६३ किं तर्हि ? । भिन्नाभिन्नत्वेनोभयात्मिकेत्येतच न युक्तम् । कस्मादित्याह - विरोधात् । यदि व्यतिरिक्ता, कथमव्यतिरिक्ता तदैव, अथाव्यतिरिक्ता, कथं व्यतिरिक्तेति, व्याहतमेतद्यदन्योन्यपरिहारस्थितलक्षणयोर्धर्मयोरेकस्मिन्धर्मिणि युगपदुपलयनम् । इद
खल्वन्यत्वं यत्तन्न भवत्यात्मान्तरवदित्यावेदितमेतत् । भवतु नामोभयात्मत्वं शक्तेः, तथाऽपि सा शक्तिरुभयात्मिका प्रत्यक्षैव, यस्मादनन्यताऽपि शक्तेः पदार्थादृष्टा, नैकान्तेनान्यत्वमेव, येनाप्रत्यक्षता भवेत् । ततश्च नित्यं कार्यगम्यत्वं शक्ते • रित्येतद्व्याहन्येत ।। १६१४ ॥
प्रत्यक्षत्वे स्थिते चास्यामनुमेयत्ववारणम् । क्षतये नैव येनास्मिन्विषये नानुमेष्यते ॥ १६१५ ॥
अपिच - " शक्तयः सर्वभावानां कार्यार्थापत्तिसाधना" इत्यादि यदेतदनुमेयत्ववारणं शक्तेः कृतम्, तन्न क्षतयेऽस्माकम् । कस्मात् ? येन - यस्मात् अस्मिन्प्रत्यक्षविषये नानुमानमिष्यतेऽस्माभिः परोक्षार्थप्रतिपत्तिरूपत्वादनुमानस्य । अनेन सिद्धसाध्यतामाह || १६१५ ॥
यदुक्तं — “श्रोत्रादिशक्तिपक्षे चेति, अत्राह - ये त्वित्यादि । .
ये तु श्रोत्रादयो भावाः प्रत्यक्षस्य न गोचराः ।
तेषां सत्तेव लिङ्गेन गम्यते शक्तिलक्षणा ॥ १६१६ ।।
ननु च सत्ता तु साध्यत एवेति पूर्व प्रतिपादितम्, तत्कथं सत्ता गम्यत इत्युच्यत इत्याह—कारणान्तरेत्यादि ।
कारणान्तरसापेक्षं तद्धि शब्दादिवेदनम् । भावेऽप्यन्यस्य तद्धेतोरभावादङ्कुरादिवत् ॥ १६१७ ॥
नाहत्य सत्ता साध्यते किं तर्हि ? कारणान्तरसापेक्षत्वं श्रोत्रादिज्ञानस्य धर्मिणः साध्यते, अन्यस्य मनस्कारादेस्तद्धेतोः श्रोत्रादिज्ञानहेतोर्भावेऽप्यभावाच्छ्रोत्रादिज्ञानस्य । प्रयोगः - यद्यस्मिन्सत्यपि कदाचिद्भवति, तत्कारणान्तरसापेक्षं, यथा क्षित्यादौ सत्यपि कदाचिदङ्कुरः । सत्यपि मनस्कारादौ कदाचिद्भवति श्रोत्रज्ञानमिति स्वभावहेतुः । तस्मिन् कारणान्तरसापेक्षत्वे साधिते यत्कारणान्तरं तत् श्रोत्रादि प्रसिद्धमित्यनेन प्रकारेण सत्ता गम्यत इत्युच्यते, न त्वाहत्येत्यदोषः ।। १६१७ ॥
यदुक्तंम् — “अनुमितात्सूर्ये याना" दिति, अत्राह – उपादानेत्यादि ।
-