________________
४६२
तत्त्वसङ्ग्रहः।
प्रसङ्गः । अर्थक्रियाकारित्वलक्षणत्वाद्वस्तुत्वस्य । अथ माभूदवस्तुत्वप्रसङ्ग इत्युपयोगोऽङ्गीक्रियते तदा तस्मिन्नुपयोगेऽङ्गीक्रियमाणे न तर्हि सा शक्तिर्मेदिनी-भिन्ना । कस्मात् ? । येनार्थक्रियासमर्थ यद्रूपं-खभावः, सैव शक्तिर्नान्यदपरं शक्तिलक्षणम् । यस्तु भावस्य शक्तिरिति व्यतिरेकिवट्यपदेशः स भेदान्तरप्रतिक्षेपेण तन्मात्रजि-- ज्ञासायां भाव एव तथोच्यते ॥ १६०८ ॥ १६०९ ॥ १६१०॥ स्यादेतन्नार्थक्रियाकारित्वं शक्तेर्लक्षणं, किं तर्हि ? । अन्यदेवेत्याह-अन्येत्यादि
अन्यलक्षणसंसिद्धौ प्रमाणं नच किञ्चन ।
ज्ञातेनापि न तेनार्थों रूपात्तत्कार्यसिद्धितः ॥१६११ ॥ अन्यस्य शक्तिलक्षणस्य संसिद्धौ न किंचित्प्रमाणमस्ति यत्प्रमाणमभावात्सर्वसामर्थ्यविरहलक्षणादेनां शक्तिं विशेषयेत् । नच तेन तथाभूतेनार्थक्रियार्थिनां ज्ञातेन किञ्चित्प्रयोजनमस्ति । रूपात्-उपयोगिनो भावस्य स्वभावादेव, अर्थक्रियासिद्धेः । यथोक्तम्-अर्थक्रियासमर्थस्य विचारैः किं तदर्थनाम् । शण्डस्य रूपवैरूप्ये कामिन्याः किं परीक्षयेति ॥ १६११ ॥
कार्यार्थापत्तिगम्यं चेदपरं शक्तिलक्षणम् ।
न कार्यस्यान्यथाभावाभवत्येतद्धि भावतः॥१६१२॥ स्यादेतत्-अस्त्येवान्यच्छक्तेर्लक्षणम्-यदुत नित्यं कार्यान्यथानुपपत्त्या यद्गम्यं रूपं सा शक्तिरिति, कार्यानुमेयत्वं शक्तेर्लक्षणम् । नैतयुक्तं शक्तिलक्षणम् । कस्मात् । कार्यस्यान्यथाभावात् । अन्यथापि-व्यतिरिक्तशक्तिमन्तरेण, कार्यस्योपपत्तेः । कथमित्याह-भवत्येतद्धि भावत इति । एतत्कार्य यस्मात् भावात्-पदार्थात् , भवति-उत्पद्यते, तस्मादन्यथाऽपि कार्यस्यास्तित्वसम्भव इति किं व्यतिरिक्तया शल्या कल्पितया ॥ १६१२ ॥
जलादिव्यतिरिक्तो हि प्रत्यक्षः पावकः क्षमः।
दाहादौ तत्किमन्येन सामर्थ्येन प्रयोजनम् ॥ १६१३ ॥ एतदेवार्थ स्पष्टीकुर्वन्नाह-जलादीत्यादि ॥ १६१३ ॥
नैकान्तेन विभिन्ना चेच्छक्तिः साऽप्युभयात्मिका ।
न विरोधाद्भवेत्सा च प्रत्यक्षाऽनन्यताऽपि यत् ॥१६१४ ।। स्यादेतत्-भवत्येष दोषो यद्यस्माभिरेकान्तेन पदार्थाच्छक्तिभिन्नाऽभ्युपगम्यते ।