________________
. पलिकासमेतः।
४६१ गृहामावस्य दृष्टत्वादिति दर्शयन्नाह-गेहाभावस्त्विति । विद्यमानत्वेति । जीवत्ता ॥ १६०२ ॥ १६०३ ॥ १६०४ ॥ १६०५ ॥ १६०६ ॥
एवं षट्प्रकाराऽर्थापत्तिः । तत्र चतसृमिः शक्तिः प्रमेया, एकया शब्दनियता, अपरया बहिर्व्यवस्थितं द्रव्यम् । तत्रेत्यादिना दूषणमाह-अत्र लक्षणं तावदयुक्तम् । तथाहि तेनादृष्टेन विना दृष्टश्रुतादिकोऽर्थो नोपपद्यत इत्यदृष्टकल्पना । तत्रेदं निरुप्यते । किं तेनादृष्टेन सह कचिदृष्टश्रुतस्यार्थस्य सम्बन्धो दृष्टो अथ न? । यदि तु दृष्टः, अनुमानत्वप्रसङ्गः, सम्बन्धदर्शनोपायत्वात् । अथ न संसिद्धः, एवं तर्हि वहेर्दाहकत्ववददाहकत्वमपि कल्पनीयम् , अदृष्टसम्बन्धत्वेनाविशेषात् । अथ मतमदाहकत्वेन सह वहेरदृष्टत्वान्नादाहकत्वं कल्प्यत इति । एवं तर्हि दाहकत्वमपि न कल्पनीयम् , तेनापि सह कचिददृष्टत्वात् । तस्मात्सम्बन्धे सिद्धे सति सम्बन्धिनमविनाभाविनं दृष्ट्वा द्वितीयस्य सम्बन्धिनः कल्पना युक्ता । एवं च कल्प्यमाने सम्बन्ध. दर्शनोपायत्वादनुमान एवान्तर्भावः स्यात् । उदाहरणान्यप्ययुक्तानि । तत्र तावत्प्रत्यक्षादिप्रसिद्धस्यार्थस्य चतसृमिरर्थापत्तिभिः शक्तिः प्रतीयत इत्यत्र साधारणं दूषणमाह-तत्र शक्कातिरेकेणेत्यादि ।
तत्र शक्तातिरेकेण न शक्तिर्नाम काचन ।
यार्थापत्त्याऽवगम्येत शक्तश्चाध्यक्ष एव हि ॥ १६०७॥ यतः शक्तिरन्या न वस्तुनः सकाशात् , स च शक्तः पदार्थः प्रत्यक्ष एवेति गृहीतग्रहणादेव न प्रमाणम् । अध्यक्षग्रहणमुपलक्षणम् ॥ १६०७ ॥ दाहादीनामित्यादिना प्रत्यक्षपूर्विकाया अर्थापत्तेरुदाहरणस्य विशेषेण दूषणमाह
दाहादीनां तु यो हेतुः पावकादिः समीक्ष्यते । असंशयाविपर्यासं शक्तिः काऽन्या भवेत्ततः ॥ १६०८ ॥ व्यतिरिक्ते तु कार्येषु तस्या एवोपयोगतः। भावोऽकारक एव स्यादुपयोगे न भेदिनी॥१६०९॥ अर्थक्रियासमर्थ हि खरूपं शक्तिलक्षणम् ।
एवमात्मा च भावोऽयं प्रत्यक्षाह्यवसीयते ॥१६१०॥ असंशयाविपर्यासमिति क्रियाविशेषणमेतत् । अथ व्यतिरिक्ता शक्तिरभ्युपगम्यते तदा कार्येषु शक्तरेवोपयोगाद्भावस्थाकारकत्वं प्रालोति ततधावस्तुत्व