________________
तत्त्वसङ्ग्रहः।
-व्यवहारकालभाविनः शब्दस्य, सङ्केतकालदृष्टाच्छब्दादनन्यगतेरव्यतिरेकनिश्वयात् । कथमव्यतिरेकनिश्चय इत्याह-अनित्यो हीत्यादि ॥ १६०० ॥ १६०१॥ अभावपूर्विकामपत्तिमाह-प्रमाणेत्यादि ।
प्रमाणामावनिर्णीतचैत्राभावविशेषितात् । गेहाचैत्रबहिर्भावसिद्धिर्या विह वर्णिता ॥ १६०२॥ तामभावोत्थितामन्यामापत्तिमुदाहरेत् । पक्षधर्माद्यनङ्गत्वादिषाऽप्यनुमानतः ॥ १६०३ ॥ बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते । प्रमेये यो ग्रहाभावः पक्षधर्मस्त्वसौ कथम् ॥ १६०४ ॥ जीवतश्च गृहाभावः पक्षधर्मोऽत्र कल्प्यते । तत्संवित्तिर्बहिर्भावं न चाबुद्धोपजायते ॥ १६०५ ॥ गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।
स मृतेष्वपि दृष्टवाइहिवृत्तेने साधकः ॥ १६०६ ॥ प्रत्यक्षादेः प्रमाणस्याभावेन निवृत्त्या निर्णीतो निश्चितो यश्चैत्राभावस्तेन विशेषिताद्हात् , इह गेहे चैत्रो नास्तीत्यतः, चैत्रस्य जीवने सति, या बहिर्भावसिद्धिःबहिश्चैत्रो विद्यत इत्येवंनिश्चयरूपा, इह-भाष्ये, वर्णिता-शबरस्वामिना, तद्न्यासामर्थापत्तीनामुपलक्षणार्थमुदाहृतेति यावत् । यथा-जीवति देवदत्ते, गृहेऽ. दर्शनेन बहिर्भावस्थादृष्टस्य कल्पनेति । इदमभावपूर्विकाया अर्थापत्तेरुदाहरणम् । प्रायेणास्यास्तार्किकैरनुमानत्वमिष्टमिति तन्निराकरणमाह-पक्षेत्यादि । यतः पक्षधर्मादयोऽस्या नाङ्गं न कारणम् , अतो मिनैवैषाऽनुमानात् , प्रत्यक्षवत् । तथाहिबहिर्देशन विशिष्टोऽर्थश्चैत्रादिः, चैत्रादिना वा विशिष्टो बहिर्देशः, तस्मिन् द्विविधेऽपि प्रमेये सति, गृहे चैत्रादेरर्थस्याभावो यः कथं व्यधिकरणः सन्पक्षधर्मों मवेत् । नैव भवेदित्यमिप्रायः । अपि च गृहाभावः पक्षधर्मत्वेन कल्प्यमानः कदाचिजीवतो देवदत्तस्य यो गृहाभावः स कल्प्यते, सामान्येन वेति पक्षद्वयम् । तत्र प्रथमे पक्षे दोषमाह-जीवत इत्यादि । तत्सवित्तिरिति । तस्य-जीवतो देवदत्तस्य संविधिःनिश्चयः, सा देवदत्चम बहिर्मावमबुङ्वा न जायते । अनेन हेवोरसिद्धतां सिद्धौ वा सिद्धसाम्यवानाह । द्वितीयेऽपि पक्षे हेतोरनेकान्तिकत्वं, मतेष्वपि देवदत्ताविपु तेषां