________________
पखिकासमेतः।
४५९ यत्प्रमाणं प्रत्यक्षादीनामन्यतमद्भवेत् । नच भवति । तस्मात्प्रमाणान्तरमेवेदमिति भावः । तदेव प्रत्यक्षादीनामन्यतमत्वमस्य निराकुर्वन्नाह-नत्वित्यादि । तत्रानुचारितस्य रात्रिभोजनवाक्यस्य न युक्तं प्रत्यक्षत्वमश्रूयमाणत्वात् । नाप्यनुमानत्वं सम्बधाभावात् । तथाहि नेदं रात्रिभोजनवाक्यं तेन दिवावाक्येन सह कचिदृष्टं, येन सम्बन्धो भवेत् । नाप्यन्यल्लिङ्गमस्ति । अथापि स्यादनुपलब्धेऽपि सम्बन्धे लिङ्गत्वमस्य भविष्यतीत्याह-यदीति । यदि ह्यसिद्धसम्बन्धस्य लिङ्गत्वं भवेत्तदा दिवावाक्योचारणादशेषवाक्यप्रतिपत्तिर्भवेत् , न रात्रिभोजनवाक्यस्यैव । कस्मात् । यतः सम्बन्धरहितत्वे सत्यन्यतो वाक्याद्रात्रिभोजनवाक्यं न विशिष्यते । सम्बन्धाभावात्सर्वमेव वाक्यमविशिष्टमिति यावत् ॥ १५९३ ॥ १५९४ ॥ १५९५ ॥ ॥ १५९६ ॥ १५९७ ॥ १५९८ ॥ उपमानपूर्विकामाह-गवयेत्यादि ।
गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता।
उपमावलसम्भूतसामर्थ्यन प्रतीयते ॥ १५९९ ॥ गवयेनोपमितस्य गोपिण्डस्य येयमुपमानज्ञानेन प्राह्यशक्तता सा उपमानबलेन यत्सम्भूतं सामर्थ्यमापत्तिस्तेन मीयते ॥ १५९९ ॥ अर्थापत्तिपूर्विकामाह-अभिधेत्यादि ।
अभिधा नान्यथा सिद्ध्येदिति वाचकशक्तताम् । अर्थापत्त्याऽवगम्यैव तदनन्यगतेः पुनः ॥ १६०० ॥ अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः ।
अनित्यो हि न सङ्केतव्यवहारानुवृत्तिमान् ॥ १६०१॥ अमिधानममिधा । अर्थप्रतिपादनमिति यावत् । सा शब्दस्य अन्यथा-वाचकशक्त्या विना, न सिद्ध्ये दित्येवं बोधकशक्तताम् , अवगम्य-बुद्धा, तदनन्यगते:तस्याबोधकशक्तेरन्या गतिर्नास्ति शब्दनियत्वमन्तरेणेति, पुनरर्थापत्त्यन्तरेणैव शब्दस्य नित्यत्वनिश्चयः । कथं पुनर्नित्यत्वमन्तरेणाभिधा न सिद्ध्यतीत्याह-अनित्यो हीत्यादि । तथाहि-सङ्केतकाले दृष्टस्य यदि व्यवहारकालेऽनुवृत्तिनं भवेत् । तदा सङ्केतकरणमनर्थकमेव स्यात् । व्यवहारार्थत्वात्तस्य । यश्चानुवर्तते व्यवहारकाले शब्दस्तेन सह पूर्व सम्बन्धस्यागृहीतत्वात् । अथवा-तदनन्यगतेरिति । तस्य