________________
४५८
तत्त्वसग्रहः। तत्र शाब्दप्रमाणपूर्विकार्थापत्तिर्यथा-पीनो देवदत्तोऽकृतरसायनो दिवा न मुझे इत्येवमादिवचनश्रवणादर्वापात्रौ मुक्त इत्येवमाद्यर्थकल्पना ॥ १५९२ ॥ __ स्यान्मतम्-पीनो देवदत्तो दिवा न भुते इत्यस्यैव वाक्यस्यायमर्थः प्रतीयते रात्रौ मुक्त इत्यत आह-न राज्यादिपदार्थश्चेति ।
न राज्यादिपदार्थश्व दिवावाक्ये च गम्यते। न दिवादिपदार्थानां संसर्गो रात्रिभोजने ॥ १५९३ ॥ न भेदो येन तद्वाक्यं तस्य स्यात्प्रतिपादकम् । अन्यार्थव्यामृतत्वाच न द्वितीयार्थकल्पना ॥ १५९४ ॥ तस्माद्वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते। तेनानागामिकत्वेऽपि यत्तद्वाक्यं प्रतीयते ॥१५९५ ॥ प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद्भवेत् । नत्वनुचरिते वाक्ये प्रत्यक्षं तावदिष्यते ॥१५९६ ॥ नानुमानं नहीदं हि दृष्टान्तेन सह कचित् । यदि त्वनुपलब्धेपि सम्बन्धे लिङ्गतष्यते ॥ १५९७ ॥ तदुचारणमात्रेण सर्ववाक्यगतिर्भवेत् ।
सम्बन्धरहितत्वेन नान्यतस्तद्विशिष्यते ॥१५९८ ॥ द्विविधो हि वाक्यार्थो भवेत् , यदुत संसर्गो भेदश्च । तत्र संसर्गः परस्परं पदार्थानामभेदः क्षीरोदकवत् । भेदश्च व्यवच्छेद्यव्यवच्छेदकभावेनावस्थानम् । यद्वानियतसाध्यसाधनसम्बन्धः संसर्गः । भेदो विजातीयव्यावृत्तिः । सोऽयं द्विप्रकारोऽपि वाक्यार्थो न सम्भवति । तथाहि-दिवादीनां पदानां येऽर्था दिवादयस्तेषां न संसर्गरूपो रात्रिभोजनार्थः, अत्यन्तविलक्षणत्वात् । नापि भेदरूपो दिवादिपदानामराज्यादिव्यवच्छेदेनाप्रवृत्तेः । अथ मतम्-रात्रौ भुत इत्ययमपरो द्वितीयोऽर्थो दिवादिवाक्यस्यैवेत्याह-अन्यार्थेति । दिवादिभोजनप्रतिषेध एवोपक्षीणत्वान्न शकोत्यपरं तदैव रात्र्यादिभोजनप्रतिपादनं कर्तुमिति न द्वितीयार्थकल्पना । तस्माद्वाक्यान्तरस्यायमर्थो रात्रौ भुत इति । बुद्धिस्थेनेति । अशाब्दत्वं दर्शयतिअनागमिकत्वेपीति । अशाब्दत्वेऽपि । यथोक्तनीत्या शाब्दत्वाभावस्य प्रतिपादितत्वात् । यत्तद्रात्रौ भुक्त इत्येतद्वाक्यं प्रतीयते तस्य वाक्यस्य ग्राहकं प्रमाणं वक्तव्यम्।