________________
परिकासमेतः। तत्र प्रत्यक्षतो ज्ञाताहाहाहहनशक्तिता। बहेरनुमितात्सूर्ये यानात्तच्छक्तियोगिता ॥ १५८८ ॥ शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः।
अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते ॥ १५८९ ॥ तत्र प्रत्यक्षपूर्विकाऽर्थापत्तिर्यथा-प्रत्यक्षेण दाहमनुभूय वढेर्दाहशक्तिकल्पना । अनुमानपूर्विका यथा-देशान्तरप्राप्त्याऽनुमिताद्गमनात्सूर्यस्य गमनशक्तियोगकल्पना । शकयश्च सर्वदा सर्वपदार्थानां कार्यार्थापत्तिसाधना इति । इयमप्यर्थापत्तिः कदाचित्प्रत्यक्षपूर्विकैव, यदा प्रत्यक्षेण कार्यमुपलभ्य कारणस्य शक्तिरवगम्यते । यदा त्वनुमानादिना कार्यमवगम्य कारणशक्तिरवगम्यते तदाऽनुमानादिपूर्विका भवति कार्यार्थापत्तिः । कार्यस्यान्यथाऽनुपपत्तिः साधनं प्रमाणं यासां तास्तथोक्ताः । नच कारणशक्तिः पूर्वमेव गृहीतेति शक्यं वक्तुम् , यस्मादपूर्वास्ताश्च शक्तयो गम्यन्ते स.
दैव । तेनाधिगतार्थाधिगन्तृत्त्वं नास्तीति भवत्येव प्रामाण्यम् । तत्रैतत्स्यात्कार्येण लिङ्गेनानुमेयाः शक्तयो नार्थापत्तिप्रमाणगम्या इत्याह-सम्बन्धग्रहणाहत इति । यस्मात्सम्बन्धप्रहणमन्तरेण गम्यन्ते तस्मानानुमेयाः ॥ १५८८ ॥ १५८९ ॥ तमेव सम्बन्धग्रहणाभावं प्रतिपादयन्नाह-नचेति ।
न चासां पूर्वसम्बन्धो न वाऽन्यो गृयतेऽधुना।
कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह ॥ १५९० ॥ न चासां शक्तीनामनुमानकालात्पूर्व कार्यैः सह सम्बन्धो गृहीतो यथा वहिधूमयोर्महानसादौ, तासामतीन्द्रियत्वात् । अनेनान्वयाभाव उक्तः । नाप्यधुनाऽनुमानकाले गृह्यते सम्बन्धोऽतीन्द्रियत्वादेव । अनेन पक्षधर्माभाव उक्तः । नहि कारणाधारशकीनां कार्य धर्मोऽयुक्तः ॥ १५९० ॥.
श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः प्रयुज्यते ।
सर्वोऽसावाश्रयासिद्धो धर्म्यसिद्धेः प्रसज्यते ॥ १५९१ ॥ किंच यदा श्रोत्रादिगताः शक्तयः पक्षीक्रियन्ते तदा श्रोत्रादिशक्तिपक्षे यावान्हेतुः प्रयुज्यते शक्तिसाधनाय सर्वोऽसौ हेतुराश्रयासिद्धः स्यात् , आभयभूतानां शकीनामसिद्धत्वात् । तस्मात्कार्यार्थापत्तिसाधनाः सर्वाः शक्तयो नानुमेयाः ॥१५९१॥
पीनो दिवा न भुत चेत्येवमादिवाश्रुतौ। रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥१५९२ ॥