________________
४५६
तत्त्वसकहा।
अन्यः प्रमान्तरास्तित्वं साधयत्यनुमावलात् । प्रत्यक्षमनुमाभिन्नप्रमाणान्तरसङ्गतम् ॥ १५८४ ॥ अनुमावत्प्रमाणत्वादनुमाऽप्येवमेव च। (नैव)मप्रतिबन्धोऽयं हेतुर्वाधाप्रकाशनात् ॥ १५८५ ॥ चतुष्वं च प्रमाणानां व्याहन्येतैवमेव ते । यत्तत्र परिहारस्ते स एवात्र भविष्यति ॥ १५८६ ॥
इति उपमानविचारः। सङ्गतं-सम्बद्धं, सद्वितीयमिति यावत् । उपलक्षणमेतत्प्रमेयान्तरसाधनस्यापि बोद्धव्यम् । साध्यविपक्षे हेतोर्बाधकस्याप्रकाशनान्न साध्यसाधनयोः प्रतिबन्ध उपदर्शित इत्यनैकान्तिकाः सर्व एव हेतवः, संदिग्धविपक्षव्यावृत्तिकत्वात् । किंचप्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रमाणानीति सङ्ख्यानियमो व्याहन्येत, अनेनैव प्रकारेण प्रमाणान्तरसद्भावात् । तथाहि शक्यमिदमभिधातुम्-प्रत्यक्षमनुमानोपमानशाब्दव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वादनुमानवदिति । यथापि प्रमेयत्रैविध्यमिष्टं सामान्यं विशेषः सामान्यविशेषवानिति, तदपि व्याहन्येत, तेनैव प्रकारेण प्रमेयान्तरसाधनसम्भवात् । योऽत्र भवतः परिहारः सोऽस्माकमपि भविष्यतीत्यलं बहुना ॥ १५८४ ॥ १५८५ ॥ १५८६ ॥
इत्युपमानविचारः। अर्थापत्तिमधिकृत्याह-प्रमाणषट्वेत्यादि ।
प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् ।
अदृष्टं कल्पयत्यन्यं सार्थापत्तिरुदाहृता॥ १५८७ ॥ यत्र देशकालादौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावलक्षणैः षङ्गिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते यद्येवंभूतोऽर्थो न भवेदित्येवं या परोक्षार्थविषया कल्पना साऽर्थापत्तिः प्रमाणम् । उदाहृतेति । शबरस्वामिना । यथोक्तम्- "दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पना । तद्यथा-जीवति देवदत्ते गृहादर्शनेन बहिर्भावकल्पने"ति । दृष्टः-शाब्दव्यतिरिक्तप्रमाणपश्चकाधिगतः, श्रुतः-शाब्दप्रमाणावगतः ॥ १५८७ ॥ तत्र षट्प्रमाणपूर्विकाया अर्थापत्तेर्यथाक्रममुदाहरणान्याह-तत्रेत्यादि ।