________________
पशिकासमेतः।
४५२ त्यादौ विषये गृहीतसंयोजनात्मकं ज्ञानं न प्रमाणं तयेदमपि न भवितुमर्हतीत्यर्थः। तत्-तस्मात् , नामयोगसंवित्तिः संज्ञासम्बन्धज्ञानं, स्मार्त्ततां नातिवर्तते-ययोकनीत्या ॥ १५७८ ॥ १५७९ ॥ १५८० ॥ • स्यादेतत्-नहि संज्ञासम्बन्धः साधर्म्यद्वारेण कचित्क्रियते, किं तर्हि ?, साक्षा
संज्ञिनमुपदर्यायं गौरित्येवं क्रियमाणो दृष्टः, नतु परोक्षविषय इत्याह-अनन्तेत्यादि ।
अनन्तोपायजन्याश्च समाख्यायोगसंविदः ।
साधर्म्यमनपेक्ष्यापि जायन्ते नरपादिषु ॥ १५८१ ॥ समाख्यायोगसंविद इति । संज्ञासम्बन्धज्ञानानि । नरपादिष्विति । राजा. दिषु ॥ १५८१ ॥ तदेवानन्तोपायजन्यत्वं प्रदर्शयितुमुदाहरणमाह-सितातपत्रेत्यादि ।
सितातपत्रापिहितनपादो नराधिपः। तेषां मध्य इति प्रोक्त उपदेशविशेषतः ॥ १५८२ ॥ कालान्तरेण तदृष्टौ तन्नामास्येति या मतिः।
सा तदाऽन्याप्रमा प्राप्ता साधाचनपेक्षणात् ॥१५८३ ॥ यथाहि कश्चित्कंचिद्रूते-गच्छ भ्रातरमुना कार्येण, पश्य नराधिपतिं बहुमिर्गजतुरगाधिरूडैः पुरुषैः सह गच्छन्तमिति । स प्रत्याह-कस्तेषां मध्ये नराधिपतिरिति । स कथयति-सितातपत्रेणापिहिता बनपादा:-आदित्यरश्मयो यस्य स, तेषां मध्ये नराधिपतिरिति । तस्य तमुपदेशं गृहीत्वा गतस्य दृष्ट्वा तं यथोकविशेषणविशिष्टं राजानमयमसौ नराधिपतिनामेति या बुद्धिरुत्पद्यते साऽपि भवन्मतेन प्रमाणान्तरमापतितम् । कस्मात् ? । सादृश्याद्यनपेक्षणात् । अनेन प्रमाणषटानन्तभीवं दर्शयति ॥ १५८२ ॥ १५८३ ॥
अविद्धकर्णस्तु-द्वे एव प्रमाणे, स्खलक्षणसामान्यलक्षणाभ्यां चान्यत्प्रमेयं नास्तीति, एतद्विघटनार्थ प्रमाणयति-प्रत्यक्षमनुमानव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वात् , अनुमानवत् । अनुमानं वा प्रत्यक्षव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वात् , प्रत्यक्षवत् । तथा स्वलक्षणं सामान्यलक्षणव्यतिरिक्तप्रमेयार्थान्तरसद्वितीयं प्रमेयत्वात् , सामान्यलक्षणवत् । सामान्यलक्षणं वा खलक्षणव्यतिरिक्तप्रमेयान्तरसद्वितीयं प्रमेयत्वात् , स्वलक्षणवदिति । एतदेवाह-अन्य इति ।