________________
४५४
तस्वसग्रहः।
र्भावामोपमानं प्रमाणान्तरम् । कथं त्रिरूपलिङ्गजत्वमन्तरेणास्थानुमानेऽन्तर्भाव इत्याशम त्रिरूपलिङ्गजन्यलं प्रतिपादयन्नाह-त्रिरूपेत्यादि । गोसदृशत्वं हेतुः, गवयक्षुतिगोचरत्वं साध्यधर्मः, सङ्केतप्रहणकाले विकल्पबुद्धिप्रतिभासी बुद्धिस्थो गवयो दृष्टान्तः । दृश्यमानो गवयो धर्मी ॥ १५७५ ॥ १५७६ ॥ ___ स्यादेतत्-गौरिव गवय इत्येतस्मिन्सङ्केतकाले गवयो बुद्धौ न समारूढ एव । ततश्चासिद्धो दृष्टान्त इत्याह-बुद्धिस्थोऽपीत्यादि ।
बुद्धिस्थोऽपि न चेत्तस्यामवस्थायां भवेदसौ।
क्रियते समयः कस्मिन्नयं च सहशो गवा ॥ १५७७॥ न केवलं न चक्षुर्गोचर इत्यपि शब्दार्थः । यदि बुद्धौ गोसारूप्यानुगतं न किं. चित्प्रतिभासेत तदाऽयं सदृशो गवेति किमाश्रित्य सङ्केतः क्रियेत, क्रियते च समयः, तस्माद्बुद्धिस्थो गोसारूप्यानुगत आकारः कश्चित्समयकाले प्रतिभासते इत्यभ्युपगन्तव्यम् ॥ १५७७ ॥
एवं तावच्छब्दार्थयोः सम्बन्धं प्रमेयमुपमानस्याभ्युपगम्य गृहीतग्रहणादनुमाना. न्तर्भावाचाप्रामाण्यमस्य प्रतिपादितम् । साम्प्रतं सम्बन्धिव्यतिरिक्तः सम्बन्धोऽपरो नास्ति, तौ च सम्बन्धिनौ प्रमाणान्तरेणागृहीतौ, तथाहि-समयकाले श्रोत्रज्ञानेन शब्दो गृहीतः, पश्चाच गवयश्चक्षुषा पुरोवर्ती गृहीतस्तत्किमपरं प्रमेयमस्ति, येनोपमानस्य प्रामाण्यं स्यादिति । एतत्प्रतिपादयन्नाह-न सम्बन्धीत्यादि ।
न सम्बन्ध्यतिरिक्तश्च सम्बन्धोऽस्तीति साधितम् । प्रागेव समये शब्दो गृहीतः श्रोत्रचेतसा ॥ १५७८॥ चक्षुषा दृश्यते चासावरतोऽवस्थितः पशुः। पृथग्विज्ञातयोरेषा युक्ता न घटना प्रमा ॥ १५७९ ॥ गृहीतप्रतिसन्धानात्सुगन्धिमधुरत्ववत् ।
तन्नामयोगसंवित्तिः स्मार्ततां नातिवर्तते ॥ १५८० ॥ अनेन गृहीतग्रहणादप्रामाण्यमाह-साधितमिति । गुणपदार्थपरीक्षायाम् । स्यादेतत् यद्यपि पृथक्सम्बन्धिनौ गृहीतौ श्रोत्रादिचेतसा, तयोश्च घटनोपमया क्रियते, तस्माइटनया प्रामाण्यमुपमानस्य स्यादित्याह-पृथगित्यादि । सुगन्धिमधुरादिवविति । सप्तम्यर्थे बतिः । यथा यदेतद्वस्त्वनुभूयमानं तन्मधुरं तत्सुगन्धी