________________
परिकासमेतः।
४५३ नेत्यस्य युज्यत इत्यनेन सम्बन्धः । नान्यत्र संज्ञासम्बन्धप्रतिपचौ सत्यां तस्याः संज्ञाया अर्थान्तरे प्रतिपत्तियुक्ताऽतिप्रसङ्गात् ॥ १५७० ।। तमेवातिप्रसङ्ग दर्शयन्नाह नहीति ।
नहि चित्राङ्गादे कश्चित्तन्नामग्रहणे सति । कालान्तरेण तं शब्दं वेत्ति चारकिरीटिनि ॥ १५७१ ॥ तस्मात्प्राग यत्र तेनेदं विकल्पप्रतिबिम्बके । ज्ञातं नाम बहिर्बुद्ध्या सामान्यमिति संज्ञिते॥१५७२ ॥ गवयस्योपलम्भेऽपि तत्रैव प्रतिपद्यते।
दृश्यकल्पाविभागज्ञो बाह्य इत्यभिमन्यते ॥ १५७३ ॥ अङ्गदः-कटकाख्यमाभरणम् । चित्रोऽङ्गदो यस्यासौ तथोक्तः । नहि चित्राङ्गदो यः स देवदत्त इत्युक्तः कश्चित्कालान्तरे तं चित्राङ्गदशब्दं चारुकिरीटिनि यज्ञदत्ते प्रतिपद्यते । किरीटं-मुकुट, चारु च तत् किरीटं यस्यास्ति स तथोक्तः । तस्मान्माभूदतिप्रसङ्ग इति । यत्रैवार्थे विकल्पसमारोपिते बाह्यार्थव्यवसायिन्या बुद्ध्या गृहीतं नाम-संज्ञा, गवयोपलम्भेऽपि तत्रैव तन्नाम प्रतिपद्यते, नतु बाह्ये स्वलक्षणे गवयाख्ये । तदेव च विकल्पप्रतिबिम्बकं सामान्यमिति व्यवहियते । तत्परिकल्पितम्। तस्य निराकृतत्वात् । कथं तर्हि बाह्यस्खलक्षणाभिमान इत्याह-दृश्येत्यादि॥१५७१॥ ॥ १५७२ ।। १५७३ ॥ अथ स्खलक्षणे शब्दादिप्रवृत्तौ को विरोध इत्याह-एवमित्यादि ।
एवं च प्रतिपत्तव्यं यत्खलक्षणगोचराः।
विकल्पा ध्वनयश्चापि विस्तरेण निराकृताः ॥ १५७४ ॥ यतः शब्दार्थपरीक्षायां विस्तरेण स्वलक्षणगोचरत्वं शब्दानां विकल्पानां च निराकृतम्, तस्माद्विकल्पसमारोपित एव शब्दार्थः ।। १५७४ ।।
तेषां तद्गोचरत्वेऽपि भवत्येवानुमैव वा। त्रिरूपलिङ्गजन्यत्वमस्य चैवं प्रतीयते ॥ १५७५ ॥ यो गवा सहशोऽसौ हि गवयश्रुतिगोचरः।
सङ्केतग्रहणावस्थो बुद्धिस्थो गवयो यथा ॥ १५७६ ॥ भवतु वा तेषां विकल्पशब्दानां खलक्षणगोचरत्वम् । तथाऽप्यनुमान एवान्त