________________
४५२
तत्त्वसङ्कहः। तथा परिगृहीतार्थग्रहणान प्रमाणता।
स्मृतेरिवोपमानस्य करणार्थवियोगतः ॥ १५६५ ॥ तत्रातिदेशवाक्यश्रवणकाले संज्ञासंझिसम्बन्धप्रतिपत्तेः पूर्वमेवोत्पन्नत्वात्पश्चादुत्पधमानायां गृहीतग्रहणान प्रमाणत्वं स्मृतिवत् । स्यादेतद्गृहीतग्राहित्वं, भविष्यति' प्रामाण्यं चेति, कोऽत्र विरोध इत्याह करणार्थवियोगत इति । करणार्थ:साधकतमत्वम् , अनिष्पादिते कर्मणि प्रवृत्त्या ॥ १५६४ ॥ १५६५ ।।
सादेतत्-पूर्व संज्ञासम्बन्धप्रतिपत्तिर्न जातैव, ततो गृहीतग्रहणादित्यसिद्धो हेतुरित्याह-अथ सेति ।
अथ सा नैव संजाता तथाऽपि प्रतिपद्यते ।
सोऽयं यस्य मया संज्ञा संश्रुतेति कथं तदा ॥ १५६६ ॥ यदि पूर्व न संजाता संज्ञासम्बन्धप्रतिपत्तिरभविष्यत्तदाऽयमसौ गवयो यस्य मया पूर्व संज्ञा भुतेत्येवमाकाराप्रतिपत्तिोंदायिष्यत ॥ १५६६ ।। अत्रैवोपपत्तिमाह-तथा हीति।
तथा घश्रुततत्संज्ञो गवयस्योपलम्भने ।
तन्नाम श्रुतमस्येति न ज्ञातुं कश्चन प्रभुः ॥ १५६७ ॥ अविद्धकर्णस्त्वाह-आगमात्सामान्येन प्रतिपद्यते विशेषप्रतिपत्तिस्तूपमानादिति । अतस्तन्मतमाशङ्कते-उपयुक्तोपमान इति ।
उपयुक्तोपमानश्चेत्तुल्यत्वग्रहणे सति ।
विशिष्टविषयत्वेन सम्बन्धमवगच्छति ॥ १५६८ ॥ उपयुक्तमुपमानमतिदेशवाक्यं यस्य स तथोक्तः ॥ १५६८ ॥ अस्यैवार्थ द्वितीयेन लोकेनाचष्टे-आगमाद्धीति ।
आगमाद्धि स सम्बन्धं वेत्ति सामान्यगोचरम् ।
विशिष्टविषयं तं तु विजानात्युपमाश्रयात् ॥ १५६९ ॥ विशिष्टो विषयो गवयः ॥ १५६९ ॥ नन्वित्यादिना प्रतिविधचे।
नन्वन्यत्र न संज्ञायाः सम्बन्धस्थावबोधने । तत्या बर्थान्तरे बोधो युज्यतेऽतिप्रसङ्गतः ॥ १५७० ॥