________________
पखिकासमेतः।
४५१ भावरूपं प्रमेयं व्यवस्थाप्यते तदा, सम-तुल्यमेतदीदृशं प्रमेयं, सादृश्यबुद्धिषु-उपमानत्वेनेष्टासु ॥ १५५९ ॥ १५६० ॥
कथमित्याह-सादृश्यस्येत्यादि । 4 साहश्यस्य विवेको हि यथा तत्र प्रमीयते ।
सर्वावयवसामान्यविवेको गम्यते तथा ॥ १५६१ ॥ यथा तत्र वैध→ज्ञाने सादृश्यविवेकः प्रतीयते तथा साधर्म्यज्ञानेऽपि सर्वावयवसामान्यवियोगो गम्यत इत्यभावान्तर्भावः स्याद्वैसादृश्यज्ञानवत् ॥ १५६१ ॥ अत्रैवोपपत्तिमाह-भूय इत्यादि ।
भूयोऽवयवसामान्ययोगो येनाधिगम्यते ।
सर्वावयवसामान्ययोगे तत्त्वं प्रसज्यते ॥ १५६२॥ येनेति कारणोपदेशः । येन-यस्मात् , साधर्म्यज्ञाने भूयोऽवयवसामान्ययोगो. ऽवगम्यते । नतु सर्वावयवसामान्ययोगस्तस्मादत्राप्यन्योन्याभावः । अन्यथा यदि सर्वावयवसामान्ययोगः स्यात् , तदा तत्त्वं-गोत्वं गवयस्य प्रसज्येत ॥ १५६२ ॥
श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने ।
संज्ञासम्बन्धविज्ञानमुपमा कैश्चिदिष्यते ॥१५६३ ॥ कैश्चिदिति । नैयायिकैः। त एवमुपमानस्य लक्षणमाहुः-"प्रसिद्धसाधासा. ध्यसाधनमुपमान"मिति । प्रसिद्ध साधर्म्य प्रसिद्धेन वा साधर्म्य यस्य स प्रसिद्धसाधो गवयः, तस्मात्-तमाश्रित्य, साध्यस्य-संज्ञासंज्ञिसम्बन्धस्य, साधनंसिद्धिः, उपमानम् । तथाह्यागमाहितसंस्कारस्मृत्यपेक्षात्साधर्म्यज्ञानात्समाख्यासम्बन्धप्रतिपत्तिरुपमानमित्ययमेवार्थोऽन्यैरन्यथा निर्दिष्टः । गौरिव गवय इत्यतिदेशवाक्यमागमः, तेनाहितो यः संस्काराख्यो गुणः, ततो याऽतिदेशवाक्यार्थस्मृतिरुपजायतेऽरण्ये गवयदर्शनात् , तामपेक्षते यत्साधर्म्यज्ञानं तत्तथोक्तम् । समाख्या-संक्षा, । शब्द इति यावत् । तेन सहार्थस्य यः सम्बन्धः, तस्य प्रतिपत्तिरुपमानमिति तुल्य एवार्थः ॥ १५६३ ॥ तत्रापीत्यादिना दूषणमाह
तत्रापि संज्ञासम्बन्धपतिपत्तिरनाकुला। तस्यातिदेशवाक्यस्य तदैव अवणे यदि ॥ १५६४ ॥