________________
तत्त्वसङ्ग्रहः ।
किया— अनेन तुल्य इति ज्ञानादेतावता लेशेन प्रमाणान्तरकल्पनायामतिप्रसङ्गः स्यात् । "प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षडेते साध्यसाधकाः ||” इति नेयत्ता स्यात्प्रमाणानाम् ॥ १५५६ ॥ तमेवातिप्रसङ्गं दर्शयन्नाह - तरुप तयादीत्यादि ।
४५०
तरुपङ्क्त्यादिसंदृष्टावेकपादपदर्शनात् । द्वितीयशाखिविज्ञानादाद्योऽसाविति निश्वयः ॥ १५५७ ॥
प्रमाणान्तरमासक्तं सादृश्याद्यनपेक्षणात् । गृहीतग्रहणान्नो चेत्समानमुपमाखपि । १५५८ ।।
आदिशब्देन पिपीलिकादिपङ्क्तिग्रहणम् । तरुपङ्क्त्यादिदर्शनकाले प्रथमवृक्षग्रहणादाद्योऽयं वृक्ष इति निश्वयो नोपजायते । द्वितीयवृक्षोपलब्धौ तु सत्यामाद्ये शाखिन्याद्योऽयं शाखीति योऽयं जायते निश्वयः स प्रमाणान्तरं स्यात् । कस्मात् । सादृश्याद्यनपेक्षणात् । सादृश्यं नापेक्षत इति नोपमानमिदम् । अक्षव्यापारानपेक्षणान्न प्रत्यक्षम् । लिङ्गानपेक्षणान्नानुमानम् । शब्दनिरपेक्षत्वान्न शाब्दम् । अन्यथा • नुपपद्यमानदृष्टश्रुतार्थानपेक्षत्वान्नार्थापत्तिः । प्रमाणप्रमेयनिवृत्त्यनपेक्षणान्नाभावः । तथा — अस्मात्पूर्वमिदं पश्चाद्दीर्घ हस्वमिदं महत् । इत्येवमादिविज्ञाने प्रमाऽनिष्टा प्रसज्यते । इति वक्तव्यम् । स्मृतित्वाद्गृहीतग्रहणान्न प्रमाणान्तरमेतदिति चेत् । समानमुपमास्वपि । गृहीतप्राहित्वम् । उपमास्खिति व्यक्तिभेदाद्बहुवचनम् ॥ १५५७॥
।। १५५८ ।।
गवयस्योपलम्भे च तुरङ्गादौ प्रवर्त्तते ।
तद्वैसादृश्यविज्ञानं यत्तदन्या प्रमा न किम् ॥ १५५९ ॥ अभावान्तर्गतं नो चेन्नैवं भावावलम्बनात् । अन्योन्याभावतायां वा समं सादृश्यबुद्धिषु ॥ १५६० ॥
किया—यथा गवयदर्शनाद्गवि साधर्म्यज्ञानं प्रमाणान्तरं व्यवस्थाप्यते, तथा गवयदर्शनात्तुरङ्गादौ वैसादृश्यस्य विज्ञानमपि कस्मान्न प्रमाणान्तरं व्यवस्थाप्येत । अभावप्रमाणान्तर्भावान्न प्रमाणान्तरमिति चेत् । नैतद्युक्तम् । कस्मात् । भावावलम्बनात् । अभावस्याभावविषयत्वात् । स्यादेतत् । बैसादृश्यं हि सादृश्याभाव:, तस्मादस्त्येषाभावान्तर्गतिरित्याह--अन्योन्येत्यादि । अन्योन्याभावतायां सत्यां यथ