SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ४४९ पलिकासमेतः। अस्तु वा वस्तु सादृश्यं तत्तु सामान्यवद्गवि । प्रतियोगिन्यदृष्टेऽपि दृष्टमेव पुरःस्थितम् ॥ १५५१ ॥ तथाच स्मृतिरूपत्वं न कथश्चिन्निवर्तते। सत्तामात्रेण विज्ञातं सादृश्यं च गवात्मनि ॥ १५५२ ॥ गवयेन तु सादृश्यमित्येवं न विनिश्चितम् । प्रमिणोत्युपमानं तु वैलक्षण्यं ततः स्मृतः ॥ १५५३ ॥ भवतु सादृश्यं वस्तुगति च सामान्यमिव सर्वात्मना परिसमाप्तं, तथापि गवयदर्शनात्पूर्व गवि पुरोऽवस्थिते प्रत्यक्षेण गृह्यमाणे ततोऽव्यतिरेकात्तदपि पुरोऽवस्थित सादृश्यं गृहीतमेव गोखरूपवत् । अन्यथा ह्यव्यतिरेको न सिद्ध्यति । ततश्च गृहीतग्रहणात्स्मृतिरूपत्वान्न प्रमाणम् । अथापि स्यात्सत्तामात्रेण पूर्व सादृश्यं गृहीतम् , एतद्वयेनैतत्सादृश्यं गोरित्यनेन रूपेण न गृहीतं । उपमानं त्वनेनाकारेण प्रमिणोति, ततः स्मृतिरूपत्वमसिद्धमिति ॥ १५५१ ॥ १५५२ ॥ १५५३ ॥ तत्राह-यदि नामेत्यादिना । यदि नाम गृहीतं नो नाना तेनैव तत्पुरा । - गृहीतं तु खरूपेण यदस्यात्माभिधीयते ॥ १५५४ ॥ यदि नाम गवयेन सादृश्यमित्यनेन नाम्ना विशिष्टं गोद्रव्यं गवयदर्शनात्पूर्व न गृहीतं, स्वरूपेण तु गृहीतमेव । यस्तस्य स्वभावः स गृहीत इति यावत् । किं तस्वरूपमित्याह यदस्यात्माभिधीयत इति । यत्स्वरूपं तस्य गोपिण्डस्यात्मेत्यमिधीयते । तेन-स्वरूपेण स्वभावलक्षणेन तद्गृहीतमिति यावत् ॥ १५५४ ॥ यदि नाम गृहीतं ततः किमित्याह-न नाम रूपमित्यादि । न नाम रूपं वस्तूनां यत्तस्याग्रहणे सति। परिज्ञातात्मतत्त्वानामप्यविज्ञातता भवेत् ॥ १५५५ ॥ नहि वस्तूनां स्वरूपं नाम भवति, येन तस्य नानः पूर्वमग्रहणे गृहीतस्यापि वस्तुनो न ग्रहणं स्यात् । विशेषतश्च निश्चयात्मकप्रत्यक्षवादिनो न गृहीतमित्येवं न युकं बलम् ॥ १५५५॥ एतावता च लेशेन प्रमाणत्वव्यवस्थितौ । नेयत्ता स्यात्प्रमाणानामन्यथाऽपि प्रमाणतः॥१५५६ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy