________________
तत्त्वसङ्ग्रहः।
सामान्यार्थेयत्रार्थशब्दः प्रमेयवचनः प्रतिज्ञाद्वयेऽपि बौद्धानामस्वभावसामान्यवादिनामभावादन्यत्वं सामान्यस्यासिद्धमिति हेतोरसिद्धिः । प्रतिज्ञार्थंकदेशभावश्चाये साध्ये वस्तुलक्षणे । तथाहि-अभावादन्यद्वस्त्वेव भवति, अभावव्यवच्छेदलक्षणवादावस्म, तदेव शब्दान्तरेण हेतुत्वेनोपात्तम् । तदेव च साध्यमिति प्रतिज्ञार्थंक। देशता ।। १५४६ ॥
किं च स्मृतिखभावत्वाद्वा न प्रमाणमुपमानं, स्मृत्यन्तरवत् । तत्र स्मृतिखभावत्वं प्रतिपादयन्नाह एवमित्यादि ।।
एवं तु युज्यते तत्र गोरूपावयवैः सह । गवयावयवाः केचित्तुल्यप्रत्ययहेतवः ॥ १५४७॥ तत्रास्य गवये दृष्टे स्मृतिः समुपजायते । असकृत् दृष्टपूर्वेषु गोरूपावयवेष्वियम् ॥ १५४८ ॥ अतएव तुरङ्गादौ तत्सादृश्येन नो मतिः।
वर्तते गवये दृष्टे को विशेषोऽन्यथा पुनः ॥ १५४९ ॥ प्रकृत्यैवासत्यपि सादृश्याख्ये वस्तुनि केचिद्वयावयवा गोगतैरवयवैः सह तुल्यप्रत्यवमर्शविकल्पहेतवः, न सादृश्यं नामार्थान्तरमन्यत्र तुल्यप्रत्यवमर्शहेतुभ्योऽवयवेभ्यः, तेभ्योऽर्थान्तरस्य बुद्धावप्रतिभासनात् । तस्माद्वयदर्शनाद्गोगतावयवेज्वेव भूयोदर्शनबलात्स्मृतिरूपमेव जायते ज्ञानं, नतु सादृश्याख्यवस्तुमाहि । अन्यथा हि तुरगादावपि भूयोऽवयवसामान्ययोगोऽस्तीति तत्रापि गवयदर्शनाद्वीव मतिः किं न प्रवर्तेत । नात्र कश्चिद्विशेषोऽस्ति, उभयत्रापि सादृश्यसद्भावात् । अन्यथेति । यद्यसकृन्न दृष्टाः स्युः । स्मृतित्वे तु नायं दोषो यदेवासकदृष्टपूर्व तत्रैव स्मृतिर्भवति । प्रतिनियतशक्तित्वाच्च स्मृतिप्रबोधहेतूनाम् ॥ १५४७ ॥ १५४८॥ ॥ १५४९ ॥ स्थादेतत्-भवतु स्मृतिस्तथापि स्मृतिरेव कस्मादप्रमाणमित्याह-विज्ञातेत्यादि ।
विज्ञातार्थप्रकाशवान प्रमाणमियं ततः।
प्रमाणान्तरभावस्तु कुत एव भविष्यति ॥ १५५०॥ इयमिति । स्मृतिः ॥ १५५० ॥ अभ्युपाम्य सारश्यस वस्तुत्वं परमतेनैवोपमानाप्रामाण्यमाह-अस्तु वेत्यादि ।