________________
पञ्जिकासमेतः ।
b
गवयदर्शनादूर्ध्वं तर्हि गवि गृहीतत्वादेतत्स्थं लिङ्गं भविष्यतीत्याह - प्रतिज्ञेति । प्रतिज्ञार्थैकदेशत्वाद्गोगतस्य न लिङ्गता ।
गवयश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति ॥। १५४१ ॥
सादृश्यस्य प्रमेयत्वान्न युक्तं तस्यैव लिङ्गत्वम् । गवयस्तर्हि लिङ्गं भविष्यतीत्याह - गवय इति । अत्रापि व्यधिकरणत्वान्न गवयस्य लिङ्गत्वम् ।। १५४१ ॥ प्रामाण्यं तर्हि माभूदुपमानस्येत्याह - न चाप्रमाणमित्यादि ।
न चाप्रमाणं तज्ज्ञानमज्ञातार्थप्रकाशनात् । गवयादर्शनात्पूर्वं तत्सादृश्यानवग्रहात् ॥ १५४२ ॥ पूर्वं गवयसादृश्यविशिष्टस्य गोरग्रहणात् । अज्ञातस्य सादृश्योपाधेर्गोः प्रकाशनमस्तीति युक्तं प्रामाण्यम् ॥। १५४२ ॥
प्रमेयेत्यादिना प्रतिविधत्ते ।
प्रमेयवस्त्वभावेन नाभिप्रेताऽस्य मानता । भूयोऽवयव सामान्ययोगः सादृश्यमस्ति चेत् ॥ १५४३ ॥ सामान्यानि निरस्तानि भूयस्ता तेषु सा कुतः । तैश्च योगः प्रमाणं चेदस्ति तत्प्रतिपादकम् ।। १५४४ ॥ सामान्यस्य च वस्तुत्वं प्रत्यक्षग्राह्यताऽपि च । अभावान्यप्रमेयत्वादसाधारणवस्तुवत् ॥ १५४५ ॥
प्रमेयाभावात् षट्प्रमाणव्यतिरिक्तप्रमाणवदतो नोपमानं प्रमाणम् । भूयोऽवयवसामान्ययोगात्मकं सादृश्यमस्ति प्रमेयमतो हेतुरसिद्ध इति चेत् । तन्न । सामान्यपरीक्षायां सामान्यानां निरस्तत्वान्न तेषां भूयस्त्वम् । नापि तैर्योगोऽस्तीति नासि - द्धता हेतोः । स्यादेतत् — अस्त्येव सामान्यप्रतिपादकं प्रमाणमतोऽसिद्ध एव हेतुः । तत्रेदं प्रमाणम् – सामान्यं वस्तु, तथा प्रत्यक्षग्राह्यम्, इति प्रतिज्ञाद्वयम् । अभावान्यप्रमेयत्वादिति हेतुः । अभावात्प्रमेयादन्यप्रमेयस्वभावत्वा दित्यर्थः । असाधारणवस्तुवदिति दृष्टान्तः । असाधारणवस्तुत्वलक्षणम् ॥। १५४३ ।। १५४४ ।। १५४५ ॥
अभावेत्यादिना दूषणमाह
अभावपक्षनिक्षिप्तसामान्यार्थप्रवादिनाम् ।
असिद्धिरायसाध्ये च प्रतिज्ञार्थकदेशता । १५४६ ॥