________________
तत्त्वसङ्ग्रहः ।
ननु च प्रत्यक्षेण सादृश्यमुपलब्धं, गौश्च स्मृत्या विषयीकृत एव, तत्किमन्यदधिकं प्रमेयमस्ति यदधिगमादुपमानस्य प्रामाण्यं स्वादित्याह - प्रत्यक्षेणेति ।
प्रत्यक्षेणावबुद्धे च सादृश्ये च गवि स्मृते ।
विशिष्टस्यान्यतोऽसिद्धेरुपमायाः प्रमाणता ।। १५३६ ॥
यद्यपि प्रत्यक्षेण सादृश्यं गृहीतं, गौश्व स्मृत्या विषयीकृतः, तथापि सादृश्यविशिष्टस्य गोपिण्डस्यान्यतः प्रत्यक्षात्स्मरणाच्चासिद्धत्वात् । उपमानस्य तदधिगमे प्रामाण्यम् ॥ १५३६ ॥
अत्रैव दृष्टान्तमाह — प्रत्यक्षेऽपीति ।
प्रत्यक्षेऽपि यथा देशे स्मर्यमाणेऽपि पावके ।
- विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ १५३७ ॥ यथा प्रदेशादौ धर्मिणि प्रत्यक्षेऽपि स्मृत्या चाग्नौ गृहीतेऽपि वह्निविशिष्टप्रदेशादि - विषयत्वान्नानुमानस्याप्रामाण्यमपि तु प्रामाण्यमेव, तद्वदुपमानस्यापीति ॥ १५३७ ॥ अथापि स्याद्भवतु प्रमाणमुपमानं, तत्कथं प्रत्यक्षादेः पृथक् प्रमाणमित्याह - नहीति ।
नहि प्रत्यक्षतासिद्धं विज्ञानस्योपपद्यते । इन्द्रियार्थाभिसम्बन्धव्यापारविरहात्तदा ॥ १५३८ ॥ त्रैरूप्यानुपपत्तेश्च नच तस्यानुमानता । पक्षधर्मादि नैवात्र कथञ्चिदवकल्पते || १५३९ ॥ (प्राग्गोगतं हि सादृश्यं न ) धर्मत्वेन गृह्यते ।
गवये गृह्यमाणं च न गवामनुमापकम् ॥ १५४० ॥
न तावत्प्रत्यक्षं युक्तमिन्द्रियार्थामिसम्बन्धेनानुत्पत्तेः । नाप्यनुमानं त्रैरूप्याभावात् । तथाहि — अत्र पक्षधर्मः सादृश्यं वा परिकल्प्यते, परिदृश्यमानो गवयादिर्वा, तच सादृश्यं लिङ्गत्वेन परिकल्प्यमानं गोगतं वा कल्प्येत गवयगतं वेति पक्षद्वयम् । तत्र न तावद्गवादिप्रमेयस्थस्य सादृश्यस्य लिङ्गत्वं, गवयदर्शनात्प्राक्तस्यागृहीतत्वात् । नचागृहीतस्य लिङ्गत्वं युक्तमतिप्रसङ्गात् । गयवस्थं तर्हि सादृश्यं लिङ्गं भविष्यति, तत्र तस्य गृहीतत्वादित्याह – गवये गृह्यमाणं च न गवामनुमापकम्, व्यधिकरणत्वात्काकस्य कार्ण्यादिवत् ।। १५३८ ।। १५३९ ।। १५४० ॥