________________
पविकासमेतः। त्सादृश्यमिन्द्रियगोचरः। सन्निधिः-सग्निहितत्वम् । गवयस्थत्वादिति समिहितत्वे हेतुः । यस्माद्वयस्थं सादृश्यं तस्मादस्य सन्निधिः ॥ १५३१ ॥
ननु च द्विष्ठत्वात्सादृश्यस्य कथमेकत्र गवयेऽस्य ग्रहणं युक्तमित्याह-सामाक्यवद्धीत्यादि।
सामान्यवद्धि सादृश्यं प्रत्येकं च समाप्यते ।
प्रतियोगिन्यदृष्टेऽपि यस्मात्तदुपलभ्यते ॥ १५३२ ॥ सामान्येन तुल्यं वर्तत इति सामान्यवत् । यद्यपि सादृश्यं द्विष्ठं तथाऽपि सामान्यवत्प्रत्येकं समाप्तमिति कृत्वा प्रतियोगिनि गवादावदृष्टेऽपि सन्निहितत्वादेकत्राप्युपलभ्यत एव ॥ १५३२ ॥
स्यादेतत्-यदि सादृश्यं वस्तु भवेत्तदोपलभ्येत यावता तदेवास्य वस्तुत्वं न सिद्धमित्याह-सादृश्यस्येत्यादि ।
सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् ।
भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ १५३३ ॥ भूयसां गवादिशृङ्गाद्यवयवसामान्यानां गवयादिजात्यन्तरेणैकव्यक्तिसमवायलक्षणः सम्बन्धः सादृश्यम् । सम्बन्धश्च सम्बन्धिभ्यो नात्यन्तं मिन्नः, सम्बन्धादिप्रत्ययाभावप्रसङ्गात् । सजातीयस्य सर्वावयवसामान्यसद्भावात्सादृश्यं नास्तीति ज्ञापनार्थ जात्यन्तरग्रहणम् ॥ १५३३॥ साम्प्रतमुपमायाः स्वरूपं दर्शयन्नाह-तस्यामिति ।
तस्यामेव व्यवस्थायां यद्विज्ञानं प्रवर्तते ।
पशुनैतेन तुल्योऽसौ गोपिण्ड इति सोपमा ॥ १५३४ ॥ अनेन परिदृश्यमानेन पशुना सदृशो गौरित्येवमाकारं परोक्षगोविषयं यज्ज्ञानमुपजायते तदुपमानं प्रमाणम् ॥ १५३४ ॥ - प्रमेयमस्य दर्शयन्नाह-तस्मादित्यादि ।
तस्माद्यत्मयते तत्स्यात्सादृश्येन विशेषितम् ।
प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् ॥ १५३५ ॥ यस्माद्यथोक्तलक्षणयुक्तमुपमानं, तस्माद्यद्वादि स्मर्यते गवयादिसादृश्यविशिष्टं, तदुपमानस्स प्रमेयम् । यद्वा सादृश्यमानं गवादिसमाश्रितम् ॥ १५३५ ॥