________________
तस्वसहः। अपमानमधिकृत्याह-कीडगिल्यादि ।
कीडग्गषय इत्येवं पृष्टो नागरिकैर्यदा। ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥ १५२६ ॥ एतस्मिनुपमानत्वं प्रसिद्धं शावरे पुनः।
अस्यागमाबहिर्भावादन्यथैवोपवर्णितम् ॥ १५२७ ॥ कीदृशो गवय इत्येवं पृष्टस्य यद्वाक्यं यादृशो गौस्तादृशो गवय इति, अस्य वाक्यस्योपमानत्वं वृद्धनैयायिकानां प्रसिद्धम् । शाबरे तु भाष्ये शबरस्वामिना शाब्द एवास्यान्तर्भावान युक्तं पृथकप्रमाणान्तरत्वमीदृशस्योपमानस्येति मत्वाऽन्यादृशमेवोपमानं वर्णितम् । उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्येत्यमुना प्रन्थेन ॥ १५२६ ॥ १५२७ ॥ एनमेव व्याचिख्यासुराह-गां दृष्ट्वेत्यादि ।
गां दृष्ट्वाऽयमरण्यान्यां गवयं वीक्षते यदा। भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥ १५२८ ॥ तदाऽस्य गवयज्ञानं रूपमात्रावबोधकम् । प्रत्यक्षमेव यचापि विशेषेण विकल्पकम् ॥ १५२९ ॥ गवा सदृशरूपोऽयं पशुरित्येतदीदृशम्। .
अक्षव्यापारसद्भावे जाते. प्रत्यक्षमिष्यते ॥ १५३० ।। पूर्व गां दृष्ट्वा पश्चादरण्यं गतो यदा गवयं पश्यति, किंविशिष्टम् , भूयोऽवयवसामान्यभाजम्-भूयास्यवयवसामान्यानि भजत इति कृत्वा, वर्तुलकण्ठकम्सानारहितम् , तदा यत्प्रथमं गवयस्वरूपमात्रप्राहि निर्विकल्पकमालोचनाज्ञानमुत्पघते तत्तावत्प्रत्यक्षम् । यचापि गवा सदृशोऽयं पशुरित्येवमाकारं विशेषेण विकल्पयदुत्पद्यते तदपि प्रत्यक्षमेव, अक्षव्यापारेणोत्पत्तेः ॥ १५२८ ॥ १५२९ ।। १५३०॥ ___ स्यादेतत्स्मरणबलादसदेव सादृश्यं विकल्पयदुत्पद्यते नाक्षव्यापारेणेत्याशयाहतत्र यद्यपीत्यादि।
तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते ।
समिधेर्गवयस्थवाद्भवेदिन्द्रियगोचरम् ॥ १५३१ ॥ यद्यपि स्मृतिपूर्वकं तत्सादृश्यमाहि ज्ञानं, तथापि गवयस्थत्वेन सन्निहितत्वा