________________
पखिकासमेतः। मन्यथा हि गोपालघटिकादौ धूमोपलम्माभूमादेरपि लिङ्गस्य व्यभिचारित्वं चोदनीयं स्यात् । तस्मात्सर्वत्रैव कार्यलिङ्गदेशकालाधपेक्षया न व्यभिचारः सम्भवीत्येकान्तसद्भाव एव । नच वैफल्यम् , प्राणितादिसिद्धये प्रवृत्तेः साफल्यसम्भवात् । शादिशब्देन कारणदोषादयो गृह्यन्ते ॥ १५२० ॥
भवतु नाम विवक्षां प्रति शब्दस्य प्रामाण्यम् । तथापि कोऽत्र धर्मी किं साध्यं कथं वा सम्बन्धः सिद्धो येन त्रैरूप्यसद्भावेनानुमानेऽन्तर्भावान प्रमाणान्तरत्वं स्यादित्याह-विवक्षायामिति ।
विवक्षायां च गम्यायां विस्पष्टैव त्रिरूपता। पुंसि धर्मिणि सा साध्या कार्येण वचसा यतः ॥ १५२१ ॥ पादपार्थविवक्षावान्पुरुषोऽयं प्रतीयते।
वृक्षशब्दप्रयोक्तृत्वात्पूर्वावस्थावहं यथा ॥ १५२२ ॥ पुरुषो धर्मी यत्र वक्ता दृश्यते, सा-विवक्षा साध्या, स्वसन्ताने च सम्बन्धः पूर्व सिद्धः । यत्र तु वक्ता न दृश्यते तत्र प्रदेशो धर्मी पुरुषविशिष्टः साध्यः । तथाहि-प्रदेशस्यापि शब्दकारणत्वमस्त्येव । पर्वतकुहरादावन्यादृशशब्दश्रवणात ॥ १५२१ ॥ १५२२ ॥
अतो यत्र परैर्वाह्ये त्रैरूप्यादि निराकृतम् । शब्दानामिष्यते तत्र नैवास्माभिः प्रमाणता ॥ १५२३ ॥ यत्र त्वेषामभीष्टेयं व्यक्तं तत्र त्रिरूपता। विवक्षायां तु साध्यायां त्रैलक्षण्यं प्रकाशितम् ॥१५२४॥ एवं स्थितेऽनुमानत्वं शब्दे धूमादिवद्भवेत् । त्रैरुप्यसहितत्वेन तादृग्विषयसत्त्वतः ॥ १५२५ ॥
इति शाब्दविचारः। अत इत्यादिना बाह्यापेक्षया शब्दस्यानुमानत्वे साध्ये त्रैरूप्यरहितत्वेनेत्यस्य हेतो. वैफल्यमाह सिद्धसाध्यतया । विवक्षापेक्षया त्वसिद्धतां यत्रेत्यादिना प्राह । तां प्रति शब्दस्य त्रैरूप्यस्य प्रकाशितत्वात् ॥ १५२३ ॥ १५२४ ॥ १५२५ ॥
इति शाब्दविचारः। .