________________
४४२
तत्वसङ्ग्रहः ।
भेदो भेदकः स्यात् । तब वैलक्षण्यं कुशलाः पुरुषा निश्चिन्वन्त्येव प्रकृतादिभ्यः । प्रकृतम्-प्रकरणम् । आदिशब्देनाव्याकुलता मुखप्रसन्नतादि गृह्यते ॥ १५१६ ॥ ॥ १५१७ ॥
1
वैलक्षण्यमेव गिरां कथमित्याह — वैलक्षण्येन हेतुनामिति । वैलक्ष्यण्येन हेतूनां विशेषं तासु ये न तु । अवगच्छन्ति दोषोऽयं तेषां लिङ्गस्य नास्ति तु ॥ १५१८ ॥ सन्दिह्यमानवपुषो धूमस्याप्येकदाऽन्यथा ।
भावान्निश्चयकालेऽपि न स्यात्तेजसि लिङ्गता ॥ १५१९ ॥
कारणभेदादिति यावत् । तस्मात्सुविवेचितं कार्य न कारणं व्यभिचरतीति भवत्येव विवक्षाविशेषे प्रामाण्यम् । ये पुनस्तासु लिङ्गभूतासु गीर्षु विशेषं नावधारयन्ति तेषामयं दोषो नतु लिङ्गस्य । नहि लिङ्गं सत्तामात्रेण गमकमिष्यते, किं तर्हि ?, निश्चितम् । तस्मात्प्रतिपत्तुर्दोषोऽयम् । अन्यथा हि कचिद्वाष्पादिरूपेण सन्दिह्यमानस्य धूमस्यान्यत्वाभावादगमकत्वान्निश्चितस्यापि वह्नौ साध्ये न लिङ्गता प्राप्नोति । अपिच यदा सर्व एवायं शाब्दो व्यवहारस्तैमिरिकद्वयद्विचन्द्रदर्शनवत्स्वप्रतिभासानु - रोधेन भ्रान्त एवेष्यते, तदा कथं विवक्षाविशेषे व्यभिचारोद्भावनादप्रामाण्यप्रसञ्जनं स्यात्, तत्र विवक्षाविशेषे पारमार्थिकस्य प्रामाण्यस्यानभ्युपगमात् । तथाचाह“सङ्केतापेक्षया तस्य हृदि कृत्वा प्रकाशनम् । अनुमानत्वमुद्दिष्टं नतु तत्त्वव्यपेक्षया ।।” इति ।। १५१८ ।। १५१९ ॥
विवक्षासामान्येऽपि साध्ये प्रामाण्यं प्रतिपादयन्नाह — तेषामित्यादि ।
तेषामपि विवक्षायाः केवलाया विरुध्यते । नानुमैकान्तसद्भावात्प्राणितादिप्रसिद्धये ॥ १५२० ॥
तेषामपि भ्रान्ताभ्रान्तप्रयुक्तानां सर्वेषां विवक्षासामान्ये नानुमानत्व विरोधः, एकान्तसद्भावात्—अव्यमिचारात् । नच - " सान्निध्यतस्तस्य पुंसश्चिन्तामणेरिव । निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः || ” इत्यनेनाभ्युपगमेन व्यमिचार आशङ्कनीयः । यतस्तत्रापि विवक्षैवाद्या करणम् । पूर्वप्रणिधानाहितसंस्कारबलेनैव तत्र वचनप्रवृत्तेः । तथाहि —- अत्यभ्यस्तमन्थञ्चाद्याया ( स्वाध्याया ? ) दिकालेऽन्यद्विकल्पयds (as ? ) पि वचनपादविहरणादिक्रियाप्रवृत्तेः । नहि पूर्वसमीहा न तेषां कारण