________________
पखिकासमेतः। भेदे याहशो लोके भेदाभेदव्यवहारः प्रसिद्धः, एकानेकप्रत्यवमर्शहेतुत्वेन तादृशौ बुद्धिभेदाभेदावुपादीयेते । इन्द्रियेऽपि सर्व समानमित्यलं प्रसङ्गेन । न तदुद्भव इति । नापि तदुत्पत्तिलक्षणसम्बन्धो व्यभिचारात् । अर्थाभावेऽपि विवक्षामात्रादाशात् । नचान्यस्य तदुत्पत्तिरहितस्याव्यभिचारिताऽस्त्यतिप्रसङ्गात् । तस्मान वाच्येऽर्थे शब्दस्य प्रामाण्यम् ॥ १५१३ ॥ १५१४ ॥ __ यद्येवं कथमुक्तम्-"न प्रमाणान्तरं शाब्दमनुमानात्तथाहि सः (तत् ?) । कृतकत्वादिवत्स्वार्थमन्यापोहेन भाषते” इति । एतदाशय यथानुमानेऽन्तर्भाव इष्टस्तथा प्रतिपादयन्नाह-वचोभ्य इत्यादि ।
वचोभ्यो निखिलेभ्योऽपि विवषाऽनुमीयते ।
प्रत्यक्षानुपलम्भाभ्यां तद्धेतुः सा हि निश्चिता ॥ १५१५ ॥ निखिलेभ्य इति । पौरुषेयत्वेनाप्यमिमतेभ्यः । सा च विवक्षा तत्कार्यत्वाद्वचनाप्रतीयते । नतु वाच्यतया । यस्मादात्मसन्तानेऽन्वयव्यतिरेकाभ्यां वचसां हेतुः सा विवक्षा निश्चिता । यत्तूक्तमन्यापोहेन भाषत इति तत्र भाषणं द्योतनं ज्ञापनमिति यावत् । तथाचास्य विवरणम्-"तत्कृतकत्वादिवदर्थान्तरसम्बद्धन व्यवच्छेदेन द्योतयती"ति । अवश्यं चैतद्विज्ञेयमन्यथा कृतकत्वादिवदिति साधनविकलो दृष्टान्तः स्यात् । नहि कृतकत्वादेर्भाषणं सम्भवति, तस्य शब्दधर्मत्वात् । ततश्चान्यापोहेन भाषणादिति हेतुरसाधारणः स्यात् ॥ १५१५ ॥
ननु च विवक्षायामपि शब्दस्य नैव प्रामाण्यं युक्तम् । तथाहि न तावद्विवक्षाविशेषे प्रामाण्यं व्यभिचारात् । भ्रान्तस्यान्यविवक्षायामन्यवाक्यदर्शनात् । नापि विवक्षासामान्ये, वैफल्यात् । नहि विवक्षामात्रविज्ञानं कचिद्व्यवहाराङ्गतां प्रतिपद्यते । ततोऽर्थविशेषानिश्चयात् । एतदाशङ्कय भ्रान्तस्येत्यादिना, विवक्षाविशेषे तावत्प्रा. माण्यमाह-धान्ताधान्तेत्यादि ।
भ्रान्तस्यान्यविवक्षायां वाक्यं चेदन्यदीक्ष्यते। तथा विवक्षमप्येतत्त(क्षासामान्येत?)मानवप्रवर्तते१५१६ भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यं परिस्फुटम् ।
विदग्धाः प्रकृतादिभ्यो निश्चिन्वन्ति गिरामलम् ॥१५१७॥ अवश्यं हि प्रान्ताप्रान्तप्रयुक्तानां वैलक्षण्यमङ्गीकर्तव्यम् , अन्यथा न भरण