________________
तस्वसहा।
दलक्षणे वेनासम्मविता न सम्भवतीति । एतदप्यसम्यक् । नोकत्राविसंवादमात्रोपळम्मात्सर्वत्र तथाभावनियमो युक्तो व्यभिचारस्य सम्भाव्यमानत्वादन्यथा व्यमिचारिलक्षणं स्यात् ॥ १५११ ॥ १५१२ ॥
एवं तावहिप्रकारमपि शाब्दलक्षणं विशेषेण दुष्टं प्रतिपाद्य सामान्यं दूषणमाह -वचसामित्यादि ।
वचसा प्रतिबन्धो वा को बाह्येष्वपि वस्तुषु । प्रतिपादयतां तानि येनैषां स्यात्प्रमाणता ॥ १५१३ ॥ मिनाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः।
व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता ॥ १५१४ ॥ नहि वाच्यैर्वस्तुभिः सह कश्चित्तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा प्रतिबन्धो व. चसामस्ति, येन तानि वस्तूनि प्रतिपादयतामेषां वचसां प्रामाण्यं स्यात् । तत्र तावन्न तादात्म्यलक्षणः प्रतिबन्धोऽस्ति, मिनाक्षग्रहणादिभ्यो हेतुभ्यः । तत्र मित्राक्षग्रहणं मिनेन्द्रियेण ग्रहणम् । तथाहि-श्रोत्रेन्द्रियेण शब्दो गृह्यतेऽर्थस्तु चक्षुरादिना । आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते । कुमारिलस्त्वाह-मिभेन्द्रियप्रायत्वाद्भिनमित्यनैकान्तिकमेतत्तथाहि-एकं रूपं यदा बहवः पश्यन्ति तदा मिनेन्द्रियप्राह्यत्वाद्रूपस्य भेदः प्राप्नोति । अथापि स्याचक्षुरिन्द्रियजातेरभेदादेकेन्द्रियप्राशत्वमेवेति । एवं तर्हि सत्ताया अनेकेन्द्रियग्राह्यत्वेऽपीन्द्रियजातेरभेदादमिभेन्द्रियप्राह्यत्वमस्तीति सिद्धमेकत्वम् । तस्माद्बुद्धिभेदाभेदाभ्यां पदार्थभेदाभेदव्यवस्था नेन्द्रियभेदाभेदाभ्यामिति । आह च-"न चानेकेन्द्रियमायं मिन्नतां प्रतिपद्यते। माभूद्विवशरीरस्थप्रायत्वाद्रूपमिन्नता ॥ जात्यभेदादभेदश्चेदिन्द्रियत्वेन तत्समम् । तुल्यबुद्धेरतो मिन्ना न सत्तेन्द्रियभेदतः ॥” इति । एतच्चासम्यक् बुद्धिभेदानेदेऽपि साध्ये समानत्वात् । तथाह्यत्रापि शक्यत एवं वक्तुम् -बुद्धिभेदाद्वस्तुभेद इत्यनैकान्तिकमेतत् । तथाहि-यदा बहव एकं रूपं पश्यन्ति, तदा बुद्धिभेदोऽस्येवानेकचक्षुर्सानोत्पतेः । नच तदा रूपस भेदः । यदि चक्षुर्विज्ञानजातेरभेदादेकत्वं परिकल्प्यते, एवं वर्हि रूपरसादीनामप्येकत्वं प्राप्नोति । सत्यपि तदुद्धिभेदे विज्ञानजावेरमेदात् । वतश्च यदुक्तम्-"बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यत" इति वास्ताहन्येव । वस्माबात्युत्तरमेतत् । अथ सत्यपि स्खलक्षणभेदे यादृशे लक्षण