________________
पविकासमेतः ।
अतोऽर्थप्रत्ययायोगात्तस्य निःकम्पता कुतः । स तु सामयिको युक्तः पुंवाग्भूतान्न भिद्यते ॥ १५०८ ॥ न्यायज्ञैर्न तयोः कश्चिद्विशेषः प्रतिपद्यते ।
भ
श्रोत्रियाणां स्वकम्पोऽयमज्ञातन्यायवर्त्मनाम् ॥ १५०९ ॥ अपौरुषेयत्वे सति यथोक्तनीत्याऽर्थप्रतीतिरेव न सम्भवति यदा तदा कुतस्तस्या अकम्पत्वम् । यश्चायमर्थप्रत्ययो भवन्नुपलभ्यते वेदवाक्यात्स तु साङ्केतिक एव युक्त इति पूर्व प्रतिपादितम् " एषा व्याख्यानतो भवे” दित्यादिना । इतश्चायं साईतिक एव युक्त इति । यस्माद्वैदिकं वाक्यं पुंवाग्भूतात् — पुंवाक्त्वप्राप्तात् न मिद्यते । पौरुषेयवचनान्न मिद्यते इति यावत् । एतदपि कुत इत्याह – न्यायज्ञैरित्यादि । तयोरिति । वैदिकपौरुषेययोः । सर्वप्रकारेण पुरुषैः शक्यकरणत्वान्न कश्चिद्विशेषो वैदिकस्य लौकिकात् । श्रोत्रियाणामित्युपहसति ।। १५०८ ।। १५०९ ॥
1
द्वितीयेऽपि "यद्वा प्रत्ययितोदिता” दित्येतस्मिन्शाब्दलक्षणेऽसम्भवितां लक्षणदोघमाह – आप्तेत्यादि ।
आसानङ्गीकृतेरेव द्वितीयमपि न क्षमम् ।
शाब्दलक्षणमिष्टौ वा सोऽयमित्यविनिश्चितः ॥ १५१० ॥
मीमांसकैः क्षीणदोषपुरुषानभ्युपगमादाप्तो नाङ्गीकृत एवेति कुतस्तद्वचनस्य प्रामाण्यं स्यात् । न क्षममिति । न युक्तम् । असम्भवीति यावत् । अथाऽप्याप्त इष्यते, तदा तस्याप्तस्येष्टौ सत्यां शृङ्गप्राहिकयाऽयमसावित्याप्तो न निश्चित इत्यस त्प्रख्य एव । नह्यन्यगुणदोषनिश्चये प्रमाणमस्ति तेषामतीन्द्रियत्वात् । कायवाग्व्यवहाराश्चान्यथाऽपि बुद्धिपूर्व क्रियन्त इति कुतस्तद्वचनस्य प्रामाण्यम्, असाङ्कर्येणार्वा - ग्दर्शिमिस्तेषामनवधारणात् ॥ १५१० ॥
प्रायः संप्रत्ययो दृष्टो यद्वाक्यात्तस्य गृह्यते । परोक्षप्रतिपत्त्यर्थं वाक्यं प्रत्ययतः स चेत् ॥ १५११ ॥ नान्यत्र प्रत्ययाभावात्पूर्वमप्रत्ययोऽपि हि । एकत्रास्खलिते तत्र सर्वत्र नियमो न हि ॥ १५१२ ॥
अथापि स्याद्यस्य पुरुषस्याक्षीणदोषस्यापि सतो वाक्याद्वाहुल्येन संप्रत्ययो दृष्टः सोऽस्मामः प्रत्ययित इष्टो न क्षीणदोषः, तस्मात्तस्य प्रत्यायितस्य वाक्यं गृह्यते, शा