________________
नहि सङ्केतभावेपि दीपो गन्धरसादिकम् ।
प्रकाशयति विज्ञातुं सा शक्तिर्नच शक्यते ॥१५०७॥ नो चेदिति । आनर्थक्यमिति सम्बन्धः । ततश्च दृष्टविरोधः प्रतिज्ञाया इति भावः । सत्यं स्यादृष्टविरोधो यदि वेदादेवार्थप्रतीतिरुपदेशमन्तरेणोपजायते, याववैषाऽर्थप्रतीतिर्व्याख्यातुः सकाशात्समयवशाद्भवेत् । न वेदात्केवलात्समयनिरपेक्षात् । तथाहि-वेदार्थ मीमांसकादिः स्वेच्छया व्याचक्षाणो दृष्टः, नच स्वाभाविकसार्थस्य पुरुषेच्छानुरोधित्वं युक्तम् । तत्रैतत्स्यात्-नहि पुरुषेणापूर्वोऽर्थः खे. च्छया कथ्यते, किं तर्हि ? । य एव हि स्वाभाविको व्यवस्थितः स एव पुरुषेण प्रकाश्यते इति तेन भवत्येव दृष्टविरोध इति । एवं तर्हि यदि प्रकृत्याऽस्य वेदस्य भूतार्थद्योतने शक्तिः स्थिता तदा सङ्केतानमिज्ञस्यापि ततो वेदवाक्यादर्थप्रतीतिः प्राप्नोति । सङ्केतसापेक्षो वेदोऽर्थप्रतीतिहेतुर्न केवल इति चेत् । तन्न । नहि प्रकृत्याऽर्थप्रतीविहेतवो दीपादयः सङ्केतमपेक्षन्ते । अन्यथा सङ्केतस्यैवान्वयव्यतिरेकाभ्यामर्थप्रतीतौ सामर्थ्य स्यात् , न स्वाभाविकस्य सम्बन्धस्य । किंच-भवतु नाम सङ्केतसहायादर्थप्रतीतिस्तथापि दोष इत्याह-समयेत्यादि । मीमांसकोपरचितात्समयानिरुतकाराघुपरचितः समयः समयान्तरं तस्य सद्भावे सति प्रकृतादादान्तरे ततः शब्दात्प्रतीतिर्न प्राप्नोति । नहि प्रदीपोऽप्रकाश्यं गन्धरसादिकं सङ्केतवशाप्रकाशयितुमीशः । भवतु नामार्थान्तरे वृत्तिः समयवशात्तथाऽपि-प्रामाण्यं न सिध्यतीति प्रतिपादयति-विज्ञातुमिति । पुरुषेच्छावशाद्यद्यर्थान्तरेऽपि शब्दस्य प्रवृत्तिस्तदा सार्यात्सा भूतार्थद्योतनशक्तिर्निश्चेतुं न शक्यते इति कथं तत इष्टार्थप्रतिपचिर्भवेत् । अथवाऽन्यथा व्याख्यायते । यासौ प्रकृत्या भूतार्थद्योतनशक्तिः सा कदाचिदेकार्थनियता वा स्यादनेकार्थनियता वेति पक्षद्वयम् । तत्रैकार्थनियमपक्षे दोषमाह-समयान्तरभाव इति । द्वितीयेऽप्याह-विज्ञातुं सा शक्तिर्नच शक्यत इति । साकर्यादिति भावः । यथोक्तम्-"गिरामेकार्थनियमे न स्यादान्तरे गतिः । अनेकार्थामिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥” इति ॥ १५०४ ॥ ॥ १५०५ ॥ १५०६ ॥ १५०७ ॥
एवं प्रथमं शाब्दलक्षणमसम्भवीति प्रतिपाद्याकम्पज्ञानजन्मत इत्यस्य हेतोरसिद्वताभुपसंहारेण दर्शयन्नाह-अत इत्यादि ।