________________
पविकासमेतः। कथमर्थवत्त्वं न सङ्गच्छत इत्याह-द्वेषेत्यादि ।
द्वेषमोहादयो दोषा यथा मिथ्यावहेतवः। कृपाप्रज्ञादयोऽप्येवं ज्ञाताः सत्यवहेतवः ॥ १५०२ ॥ तदाश्रयनराभावे न तयोरपि सम्भवः ।
आनर्थक्यमतः प्राप्तं वचस्यपुरुषाश्रये ॥ १५०३ ॥ द्वाभ्यां प्रकाराभ्यामर्थवत्ता भवति, (अविपरीतार्थत्वेन) विपरीतार्थत्वेन वा, तृतीयराश्यभावात् । तस्याश्च बुद्धेर्द्विप्रकाराया अप्यर्थवत्ताया गुणदोषी कारणमित्यन्वयव्यतिरेकाभ्यां निश्चितम् । तथाहि-यथारागादिदोषपरीतपुरुषो मृषावादी दृष्टलथा कृपादिगुणयुक्तः सत्यवाग्दृष्टः । तयोश्च गुणदोषयोः सम्यक्त्वमिथ्यात्वहेत्वोराश्रयः पुरुषः, ततश्च पुरुषनिवृत्तौ गुणदोषनिवृत्तिः, गुणदोषनिवृत्तौ सम्यक्त्वमिथ्यात्वयोरप्यभावः, तदभावे प्रकारान्तरासम्भवादानर्थक्यमपौरुषेये वचसि प्राप्तम् । कारणाभावात् । नहि कारणमन्तरेण कार्यस्य सम्भवो युक्तः, निर्हेतुत्वप्रसङ्गात् । ततश्च देशकालद्रव्यादिनियमो न स्यात् । प्रसङ्गसाधनमेतद्रष्टव्यम् । अन्यथा हि स्वातज्येण साधने दृष्टविरोधः स्यात् । तथाहि-"अग्निहोत्रं जुहुयात्स्वर्गकामः” इत्यादिवाक्यादर्थप्रतीतिर्भवन्त्युपलभ्यत एव, नच दृष्टमपह्रोतुं शक्यते । नचाककत्वमुभयसिद्धमित्यसिद्धश्च हेतुः स्यात् । प्रसङ्गसाधने तु द्वयमप्यदुष्टम् । तथाहियद्यपौरुषेयत्वमभ्युपगम्यते वेदस्य तदाऽऽनर्थक्यमभ्युपगन्तव्यम् । अर्थवत्त्वहेतोः पुरुपस्याभावात् । नचानर्थक्यम् , अतः स्यात्पौरुषेय एवेति प्रसङ्गेन प्रदर्श्यते ॥१५०२॥ ॥ १५०३ ॥
एतदेव प्रसङ्गसाधनं समर्थयितुं दृष्टविरोधाभाव प्रतिपादयन्नाशङ्कापूर्वकमाहअर्थेत्यादि।
अर्थप्रतीतितो नो चेदेषा व्याख्यानतो भवेत् । खतनो हि पुमान्दृष्टो व्याचक्षाणोऽर्थमिच्छया ॥१५०४॥ भूतार्थयोतने शक्तिः प्रकृत्यैव स्थिताऽस्य चेत् । अज्ञातसमयस्यापि भवेदर्थगतिस्ततः ॥ १५०५॥ प्रकृत्या दीपको दीपो न सकेतमपेक्षते। . समयान्तरभावे च तमादर्थान्तरे गतिः ॥ १५०६ ॥