________________
अमिहोत्रादिवचनादकम्पज्ञानजन्मतः।
तत्पमाणत्वमप्यस्य निराकर्तुं न पार्यते ॥ १४९९॥ - संशयविपर्यासरहितत्वादकम्यं निश्चलम् । बाधकप्रमाणाभावात्प्रमाणं प्रत्यक्षादिवविति यावत् । तथा चाह शबरखामी-न च स्वर्गकामो यजेतेत्यतो वचनात्सन्दिग्धमवगम्यते भवति स्वर्गों न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिभ्या स्थात् , यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः, नचैष देशान्तरे कालान्तरे पुरुषान्तरे विपर्येति, तस्मादवितथः । यत्तु लौकिकं वचनं तश्चेत्प्रत्ययितासुरुषादिन्द्रियविषयं वा तदवितथमेव । अथाप्रत्ययितादतीन्द्रियविषयं वा तत्पुरुषबुद्धिप्रभवमप्रमाणम् , अशक्यं हि पुरुषमात्रेण ज्ञातुमिति ॥ १४९९ ॥
तत्रेत्यादिना-तच्चाकर्तृकतो वाक्यादित्येतस्मिन्प्रथमे शाब्दे लक्षणेऽसम्भवितां लक्षणदोषमाह।
तत्राकर्तृकवाक्यस्य सम्भवार्थावसङ्गती। .. तमादसम्भवि प्रोक्तं प्रथमं शाब्दलक्षणम् ॥ १५००॥ . अकर्तृकस्य हि वाक्यस्य सम्भवो नास्त्येव, व्यापिनः क्षणभङ्गस्य साधितत्वात् । वक्ष्यमाणयुक्त्या वा । सत्यपि वा सम्भवे न तस्यार्थवत्त्वं सम्भवति, अतोऽकर्तृकादुचनात्परोक्षोऽर्थोऽयं ज्ञात इत्यस्यासम्भवादसम्भवि प्रमाणलक्षणम् ॥ १५०० ॥ कथं पुनरकर्तृकं वाक्यं नास्तीत्याह-शक्तेत्यादि ।
शक्ताशक्तखभावस्य सर्वदा बनुवर्तनात् ।
तदा तद्भाविविज्ञानं भवेन्नो वा कदाचन ॥ १५०१॥ ___ तत्राकर्तृकं वाक्यं शक्तं वा स्यात्-ज्ञानजनने, कदाचिदशकं वेति पक्षद्वयम् । प्रथमे पक्षे तस्य शक्तस्य स्वभावस्थानुवनान्नित्यं तद्भाविविज्ञानं प्राप्नोति । तत्र प्रयोगः यदप्रतिबद्धसामर्थ्य यस्मिन्कर्त्तव्ये, तत्करोत्येव, यथाऽन्या कारणसामग्री, मप्रतिबद्धसामर्थ्य चाकर्तृकं वाक्यं ज्ञानजनने सर्वकालमिति स्वभावहेतुः । अथवा -यदविकलकारणं तद्भवत्येव, यथाऽविकलकारणोऽहुरः, अविकलकारणं चापौरुषेयवाक्यमाविविज्ञानमिति स्वभावहेतुः । द्वितीयेऽपि पक्षे तस्याशक्तस्य स्वभावस्य पर्वकालमनुवर्तनाथ म कदाचित्तद्भावि विज्ञानं स्यात् , यथा विकलकारणोऽङ्करः ॥ १५०१॥