________________
४३५
पखिकासमेत। एतदेव दर्शयन्नाह-यन्त्रेत्यादि ।
यत्र धूमोऽस्ति तत्राग्नेरस्तित्वेनान्वयः स्फुटम् ।
नत्वेवं यत्र शन्दोऽस्ति तत्रार्थोऽस्तीति निश्चितम् ॥१४९५॥ यत्र धूमखत्रावश्यं यतो वहिरित्यतोऽसौ वहिरन्वेता भवति धूमस, नत्वेवं शब्दस्वार्थेनान्वयः ॥ १४९५ ॥ कथं नास्तीति प्रतिपादयत्राह-न तावदिति ।
न तावत्तत्र देशेऽसौ न तत्काले च गम्यते । भवेन्नित्यविमुखाचेत्सर्वशब्देषु तत्समम् ॥ १४९६ ॥ तेन सर्वत्र दृष्टवाव्यतिरेकस्य चागतेः।
सर्वशन्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ १४९७॥ न तावचत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । तथाहि-पिण्डखजूरादिशब्दोऽन्यत्र पाटलिपुत्रादौ श्रूयते, नच तत्र देशे पिण्डखजूरादिरस्ति । तथा नापि शब्दकालेऽर्थोऽवश्यं सम्भवति, दिलीपमहासम्मतादिशब्दा वर्चमानास्तदर्थस्तु भूतो भविष्यंश्चेति कुतोऽथैः शब्दस्यान्वेतृत्वम् । अथ मतम्-नित्यत्वाच्छब्दानां सर्वकालमवस्थितेरर्थेन सह न मिन्नकालता, नापि मिनदेशता, व्यापित्वात्सर्वदेशेष्ववस्थितेः, अतो नित्यविभुत्वाद्भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तमित्यविभुत्वं तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियतार्थाभिधानं न प्राप्नोति । कि तर्हि ? । येन केनचिच्छब्देन सर्वस्यैवार्थस्यामिधानं स्यात् , तेनार्थेन सह सर्वत्र देशे काले वा सर्वशब्दस्य दृष्टत्वात् । व्यतिरेक:-साध्याभावे साधनामावः, तस्य । अगतेरिति । अनुपलम्भात् । नित्यविभुत्वादेव ॥ १४९६ ॥ १४९७ ॥
तमादननुमानखं शाब्दे प्रत्यक्षवद्भवेत् ।
त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ १४९८ ॥ .. तस्मावित्युपसंहृत्य प्रमाणं दर्शयति । अननुमानत्वं शाब्द इति साध्यनिर्देशः । त्रैरूप्यरहितत्वेनेति हेतुः । प्रत्यक्षवदिति दृष्टान्तः । तादृग्विषयवर्जनादिति हेतुसमर्थनम् । यादृशो धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तेन तादृशा विषयेण वर्जनात्-रहितत्वादिति यावत् ॥ १४९८ ॥ • भवतु नाम त्रैरूप्यरहितत्वादनुमानादन्यत्वं, प्रामाण्यं त्वस्य शब्दस कथमित्याह -अग्निहोत्रेत्यादि । .