________________
૨૪
तत्त्वसङ्ग्रहः ।
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत्सुनिश्चितम् । न भवेदनुमानं च यावत्तद्विषयं न तत् ॥ १४९१ ॥ तत्र शबरस्वामी शाब्दलक्षणमाह — शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दमिति । शब्दस्वलक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तच्छब्दादागतमिति कृत्वा शाब्दप्रमाणम् । तच द्विविधम् । अपौरुषेयशब्दजनितं प्रत्ययितपुरुषवाक्यजं च । एतच प्रत्यक्षाद्भिन्नं परोक्षविषयत्वात् । नाप्यनुमानं त्रैरूप्याभावात् । तथाहिसाध्यधर्मविशिष्टो धर्मी अनुमेय इष्यते, न केवलो नापि धर्ममात्रम्, यावच तद्धर्मित्वेन धर्मिविषयं लिङ्गं नावधार्यते न तावदनुमानस्य प्रवृत्तिः सम्भवति । यावत्पक्षधर्मत्वावधारणा न भवति न तावदनुमानमिति यावत् ॥ १४८९ ॥ १४९० ॥ ॥ १४९१ ॥
सैव पक्षधर्मत्वावधारणा किं न भवतीत्याह-यश्चेति ।
यात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च । नचानवधृते तस्मिंस्तद्धर्मत्वावधारणा ॥। १४९२ ॥
यश्चात्र शाब्दे कल्प्यते वृक्षादिधर्मी स एव प्रमेयस्तस्यैव प्रतिपाद्यत्वात् । धर्म्येवात्र प्रमेयो न धर्मविशिष्टो धर्मीति यावत् । तस्मिन्धर्मिणि अनवधृते — अनिश्चिते कथं तद्धर्मत्वं निश्चीयते ॥ १४९२ ॥
प्राक्स चेत्पक्षधर्मत्वाद्गृहीतः किं ततः परम् । पक्षधर्मादिभिर्ज्ञातैर्येन स्यादनुमानता ॥। १४९३ ॥
किं च— यदि चासौ धर्मी पक्षधर्मत्वनिश्चयात्प्राग्ज्ञातस्तदा निष्फलः पक्षधर्म - त्वादिनिश्चये प्रयत्नः, धर्मिप्रतिपत्त्यर्थो हि सर्वः प्रयासः, स चेत्प्रतिपन्नः किमि - दानीं पक्षधर्मत्वादिनिरूपणप्रयासेन । अभ्युपगम्य चैतदमिहितम् । नच शब्दो वृक्षादेर्धर्मिणो धर्मः, वक्तृदेशेऽवधार्यमाणत्वात् ।। १४९३ ॥
एवं तावत्पक्षधर्मत्वाभावः प्रतिपादितः, इदानीमन्वयाभावं प्रतिपादयन्नाह - अवयो नचेत्यादि ।
अन्वयो नच शब्दस्य प्रमेयेण निरूप्यते ।
व्यापारेण हि सर्वेषामन्वेतुत्वं प्रतीयते । १४९४ ॥
1
निरूप्यत इति । निश्चीयते । व्यापारेणेति । सद्भावेन, सन्तयेति यावत् । एतदुकं भवति - विद्यमानस्यैवान्वेतृत्वं नाविद्यमानस्येति ॥। १४९४ ॥