SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ‘पषिकासमेतः। अज्ञाताप्रकाशवादप्रमाणं तदिष्यते।। नाशकसूचकत्वेन तावकीनं तथा ननु ॥ १४८६ ॥ इत्यनुमानपरीक्षा। - अयमिति । वक्ता । तेनेति । वचनात्मकेन । अज्ञातेत्यादिना दूषणमाहनहि वचनस्य वफपेक्षया संसूचनादप्रामाण्यमिष्टं, किं तर्हि ? । अज्ञातार्थाप्रकाशनात् । सक्तसूचकत्वमस्यास्त्येव । त्वदीयं त्वनुमान न सक्तसंसूचकमित्यसमानमेतत्। अन्यथा घुभयसिद्धमेव भवेत् । तस्मान्यायादनपेतं प्रमाणं सर्वेषां युक्तं प्रत्यक्षवदिति न्याय्यम् ॥ १४८५ ॥ १४८६ ॥ इत्यनुमानपरीक्षा। इदानीं प्रमाणद्वितयनियमसाधनार्थ सङ्ख्याविप्रतिपत्तिकरणार्थमाह-नन्वित्यादि । ननु शब्दप्रमाणादिप्रमाणान्तरसम्भवात् । निर्दिष्टं लक्षणं कस्माद्वयोरेव प्रमाणयोः ॥ १४८७ ॥ अनेनाव्यापितां प्रमाणलक्षणस्य दोषं प्रमाद्वितयनिश्चितमित्यत्र द्वितयावधारणवैफल्यं चाह ॥ १४८७ ॥ उच्यत इत्यादिना परिहरति । उच्यते न द्वयादन्यत्प्रमाणमुपपद्यते। प्रमाणलक्षणायोगायोगे चान्तर्गमादिह ॥१४८८ ॥ अन्तर्गमादिहेति । अस्मिन्नेव प्रमाणद्वये । एतदुक्तं भवति-प्रमाणद्वयादन्यस्य प्रमाणलक्षणमविसंवादित्वं नास्त्येव, सति चात्रैवान्तर्भावात्पृथकोच्यते प्रमाणान्तरमिति ॥ १४८८ ॥ तत्र कथमन्येषामप्रामाण्यं प्रामाण्ये वा कथमिहान्तर्भाव इत्येतायं प्रतिपादयति । अत्र शाब्दोपमार्थापत्त्यभावयुक्त्यनुपलब्धिसम्भवैतियप्रतिभाख्यातिप्रमाणान्तयणि परैरभ्युपगतानि । तत्र शाब्दमधिकृत्याह-शब्दज्ञानादित्यादि । शब्दज्ञानात्परोक्षार्थज्ञानं शाब्दं परे जमुः। तवाकर्टकतो वाक्यासथा प्रत्ययिनोदितात् ॥१४८९ ॥ इदं च किल नाध्यक्ष परोक्षविषयत्वतः। नानुमान व घटते तल्लक्षणवियोगतः ॥१४९०॥ .
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy