Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 732
________________ पषिकासमेतः। सर्वशन्दविवेकोऽपि कार्यादृष्टेः प्रतीयते। साच सिद्धाऽन्ततोऽन्येषां विज्ञानानां खवेदनात्॥१६८९॥ राशेरिति । संविचाविति सम्बन्धः । यस्मात्तमेव प्रकाशतमसो राशिमाकाशमिति प्रतिपत्ता प्रतिपद्यते, नान्यत् । तथाहि-दिवा निशि वेदमिन्द्रनीलसङ्काशमिदं जलघरनिकाशमिति वा प्रतिपद्यते । न चाकाशस्य परिकल्पितस्य वर्णसंस्थानादिरस्ति । ततोऽन्यस्येति । प्रकाशतमोराशिव्यतिरेकेण परपरिकल्पितस्याकाशस्यासत्त्वात् । सत्त्वेवाऽतीन्द्रियत्वात् । सर्वशब्दविवेकोऽपि श्रोत्रज्ञानस्य कार्यस्यानुपलब्ध्या गम्यते। सा चानुपलब्धिरन्येषां चक्षुरादिज्ञानानां संवेदनासिद्धेत्यस्त्येवात्राप्येकोपलम्भोऽन्यविज्ञानसंवेदनलक्षणः । ननु नहि कार्यसत्तया कारणसत्ता व्याप्ता, येन सा कार्यसत्ता निवर्तमाना तामपि निवर्तयेत् । यतो नावश्यं कारणानि वर्द्धति (अर्थवन्ति ?) भवन्ति । न ब्रूमः सर्वा कारणसत्ता कार्यसत्तया व्याप्तेति, किं तर्हि ?, विशिष्टैवाऽप्रतिबद्धसामर्थ्यलक्षणा, तस्या एवात्र निषेधः क्रियते, न सर्वस्याः । तथाहि यत्रापि केवलप्रदेशोपलम्भाटाभावसिद्धिः, सापि घटोपलम्भाख्यकार्यानुपलब्धिरेव । यत उपलब्धिलक्षणप्राप्तस्यैव घटस्याभावः साध्यते, न सर्वस्य । कञ्चोपलब्धिलक्षणप्राप्तः ? । य एवाप्रतिबद्धसामर्थ्यः । यत उपलब्धिलक्षणं स्वभावविशेषो वर्णितः-यः स्वभावः स प्रत्यक्ष एव भवतीति । अन्यथा ह्यत्रापि घटोपलब्ध्या घटसत्ता न व्याप्ता स्यात्ततश्चाव्यापकस्य निवृत्तौ नाव्याप्तस्य निवृत्तिरिति ततो घटाभावों न सिद्ध्येत् । तस्मात्सर्वैव स्वभावानुपलब्धिरसद्व्यवहारहेतुः । परमार्थतः कार्यानुपलब्धिरेव द्रष्टव्या ॥ १६८८ ॥ १६८९ ॥ इत्थमित्यादिनाऽभावशब्दवाच्यत्वादित्यस्य हेतोरनैकान्तिकत्वमाह इत्थं च वस्तुरूपत्वे स्थितेऽभावप्रमात्मनः। अभावशब्दवाच्यत्वमन्तर्भावेऽप्यबाधितम् ॥ १६९०॥ इत्थमिति । एकस्य या दृष्टिः सैवान्या दृष्टिरुच्यत इत्यादिना । अन्तर्भावेऽप्यबाधितमिति । अभावस्य प्रत्यक्षान्तर्भावेऽप्यभावशब्दवाच्यत्वमविरुद्धमित्यर्थः । ए. तेन हेतोर्विपक्षादव्यावृत्तिमाह ॥ १६९० ॥ अभावो वा प्रमाणेन खानुरूपेण मीयते। इत्यत्र सिद्धसाध्यत्वं तादृश्यस्त्यनुरूपता ॥ १६९१ ॥ . इत्यभावविचारः।

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832