Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 739
________________ तत्त्वसष्ट्रहः। अत्यन्तभिन्नता तस्माद्धटते नैव कस्यचित् । सर्व हि वस्तुरूपेण भिद्यते न परस्परम् ॥ १७१६ ॥ अन्यथेति । यदि च भावो भावान्तरातुल्यः स्यात्तदा किमिति घटादिध्वेव भावो भाव इत्यभिन्ना बुद्धिर्भवति नतु काकदन्तादिष्विति तत्र कारणं वक्तव्यम् ,' सारूप्यं कारणमिति चेत्तदेव तर्हि सामान्यमिति सिद्धं, सामान्यपर्यायत्वात्सारूप्यस्य । अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता शक्तिः कारणमिति चेत् । साऽप्यनेनैव सारूप्येणोपवर्णिता-व्याख्याता । सारूप्यवदत्रापि समानमुत्तरमिति यावत् । तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद्वस्तुरूपेण सर्व घटादि परस्परममिन्नमिति सिद्धम् ।। १७१४ ।। १७१५ ।। १७१६ ।। भेदसमर्थनार्थमाह-अवधीकृत इत्यादि । अवधीकृतवस्तुभ्यो वैरुप्यरहितं यदि । तद्वस्तु न भवेद्भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥ १७१७ ।। तेभ्यः खरूपं भिन्नं हि वैरूप्यमभिधीयते । वैरूप्यं न च भिन्नं चेत्येतदन्योन्यवाधितम् ॥ १७१८ ॥ तस्माद्भिन्नत्वमर्थानां कथंचिदुपगच्छता। वैरूप्यमुपगन्तव्यं विशेषात्मकताऽप्यतः ॥ १७१९ ॥ अवधीकृतेभ्य इति । पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवेतदाऽभेदात्तेभ्यः पटादिभ्यस्तद्धटादि मिन्नं न भवेदात्मखरूपवदमिन्नत्वप्रसङ्गात् । तथाहि तेभ्यः पटादिभ्यो यद्विमिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनां नच घटादिभ्यो भेदोऽस्तीति ववचनव्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ १७१७ ॥ १७१८ ॥ १७१९ ॥ एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहारहेतुत्वं प्रतिपादयन्नाह-वस्त्वेकात्मकमेवेदमिति । वस्त्वेकात्मकमेवेदमनेकाकारमिष्यते । ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥ १७२० ॥ आया एतेऽनुवृत्तत्वात्सामान्यमिति कीर्तिताः । विशेषास्वभिधीयन्ते व्यावृत्तवात्ततोऽपरे ॥ १७२१ ॥

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832