Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 736
________________ पलिकासमेतः। एवं विस्तरेण प्रमाणान्तरं निराकृत्य सङ्केपेण निराकुर्वनाह-अथवेत्यादि । अथवाऽस्थान एवायमायासः क्रियते यतः । प्रत्यक्षश्च परोक्षश्च द्विधैवार्थो व्यवस्थितः ॥ १७०१॥ 4 द्विविध एव ह्यर्थः प्रत्यक्षः परोक्षश्च ।। १७०१॥ ननु चापरोऽप्यस्ति प्रत्यक्षाप्रत्यक्षः, नैव प्रत्यक्षो नाप्यप्रत्यक्ष इत्याह-उभयेत्यादि। उभयानुभयात्मा हि नैवासौ युज्यते परः। एकस्यैकत्र विज्ञाने व्याहते हि क्रियाक्रिये ॥ १७०२॥ साक्षाद्धि ज्ञानजनकः प्रत्यक्षो ह्यर्थ उच्यते । यथोक्तविपरीतस्तु परोक्षः कृतिभिर्मतः ॥ १७०३ ॥ आद्यार्थविषयं तावन्नेदं शाब्दोपमादिकम् । प्रत्यक्षेऽन्तर्गतिप्राप्तेवैफल्यं वा स्मृतेरिव ॥ १७०४ ॥ परोक्षविषयत्वेऽपि सर्वेषां विषयः कथम् । यदि साक्षात्परोक्षोऽयं न स्यात्प्रत्यक्षवस्तुवत् ॥ १७०५॥ परव्यपाश्रयेणापि प्रतिपत्तौ किमस्य सा। सम्बद्धेतरतो नो वा भेदाभासा न वा तथा ॥ १७०६ ॥ असम्बद्धात्तदुद्भूतावव्यवस्था प्रसज्यते । न च संगच्छते व्याप्तिर्भेदाभासा भवेद्यदि ॥ १७०७ ॥ परोक्षविषया यावत्सम्बद्धार्थसमाश्रया। अपरामृष्टतद्भेदा प्रतीतिरनुमा स्फुटा ॥ १७०८ ॥ इति प्रमाणान्तरपरीक्षा । न टेकस्यान्योन्यप्रत्यनीकानेकधर्मसम्पातो युक्तः, एकत्वहानिप्रसङ्गात् , तथाहि -विशिष्टस्याव्यवधानेन यथागृहीतार्थावसायकारणस्य ज्ञानस्य साक्षाल्लिङ्गादिव्यवधानं विना जनकोऽर्थः प्रत्यक्ष उच्यते । एवं च कृत्वा क्षणिकः शब्द इत्यादिज्ञानमप्रत्यक्षार्थमिति सिद्धम् । नचैकस्य पदार्थस्यैकत्र क्रियाक्रिये युक्ते, येन विज्ञानजनकत्वाजनकत्वाभ्यां प्रत्यक्षाप्रत्यक्षस्वभावो भवेत् । नाप्यनुभयस्वभावो युक्तः, एकस्वभावनिषेधस्यापरस्वभावविधिनान्तरीयकत्वाद्वस्तुनः । अनेकस्य तु नैकत्र क्रिया.

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832