Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 707
________________ ४५६ तत्त्वसकहा। अन्यः प्रमान्तरास्तित्वं साधयत्यनुमावलात् । प्रत्यक्षमनुमाभिन्नप्रमाणान्तरसङ्गतम् ॥ १५८४ ॥ अनुमावत्प्रमाणत्वादनुमाऽप्येवमेव च। (नैव)मप्रतिबन्धोऽयं हेतुर्वाधाप्रकाशनात् ॥ १५८५ ॥ चतुष्वं च प्रमाणानां व्याहन्येतैवमेव ते । यत्तत्र परिहारस्ते स एवात्र भविष्यति ॥ १५८६ ॥ इति उपमानविचारः। सङ्गतं-सम्बद्धं, सद्वितीयमिति यावत् । उपलक्षणमेतत्प्रमेयान्तरसाधनस्यापि बोद्धव्यम् । साध्यविपक्षे हेतोर्बाधकस्याप्रकाशनान्न साध्यसाधनयोः प्रतिबन्ध उपदर्शित इत्यनैकान्तिकाः सर्व एव हेतवः, संदिग्धविपक्षव्यावृत्तिकत्वात् । किंचप्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रमाणानीति सङ्ख्यानियमो व्याहन्येत, अनेनैव प्रकारेण प्रमाणान्तरसद्भावात् । तथाहि शक्यमिदमभिधातुम्-प्रत्यक्षमनुमानोपमानशाब्दव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वादनुमानवदिति । यथापि प्रमेयत्रैविध्यमिष्टं सामान्यं विशेषः सामान्यविशेषवानिति, तदपि व्याहन्येत, तेनैव प्रकारेण प्रमेयान्तरसाधनसम्भवात् । योऽत्र भवतः परिहारः सोऽस्माकमपि भविष्यतीत्यलं बहुना ॥ १५८४ ॥ १५८५ ॥ १५८६ ॥ इत्युपमानविचारः। अर्थापत्तिमधिकृत्याह-प्रमाणषट्वेत्यादि । प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् । अदृष्टं कल्पयत्यन्यं सार्थापत्तिरुदाहृता॥ १५८७ ॥ यत्र देशकालादौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावलक्षणैः षङ्गिः प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते यद्येवंभूतोऽर्थो न भवेदित्येवं या परोक्षार्थविषया कल्पना साऽर्थापत्तिः प्रमाणम् । उदाहृतेति । शबरस्वामिना । यथोक्तम्- "दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पना । तद्यथा-जीवति देवदत्ते गृहादर्शनेन बहिर्भावकल्पने"ति । दृष्टः-शाब्दव्यतिरिक्तप्रमाणपश्चकाधिगतः, श्रुतः-शाब्दप्रमाणावगतः ॥ १५८७ ॥ तत्र षट्प्रमाणपूर्विकाया अर्थापत्तेर्यथाक्रममुदाहरणान्याह-तत्रेत्यादि ।

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832