Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 713
________________ ४६२ तत्त्वसङ्ग्रहः। प्रसङ्गः । अर्थक्रियाकारित्वलक्षणत्वाद्वस्तुत्वस्य । अथ माभूदवस्तुत्वप्रसङ्ग इत्युपयोगोऽङ्गीक्रियते तदा तस्मिन्नुपयोगेऽङ्गीक्रियमाणे न तर्हि सा शक्तिर्मेदिनी-भिन्ना । कस्मात् ? । येनार्थक्रियासमर्थ यद्रूपं-खभावः, सैव शक्तिर्नान्यदपरं शक्तिलक्षणम् । यस्तु भावस्य शक्तिरिति व्यतिरेकिवट्यपदेशः स भेदान्तरप्रतिक्षेपेण तन्मात्रजि-- ज्ञासायां भाव एव तथोच्यते ॥ १६०८ ॥ १६०९ ॥ १६१०॥ स्यादेतन्नार्थक्रियाकारित्वं शक्तेर्लक्षणं, किं तर्हि ? । अन्यदेवेत्याह-अन्येत्यादि अन्यलक्षणसंसिद्धौ प्रमाणं नच किञ्चन । ज्ञातेनापि न तेनार्थों रूपात्तत्कार्यसिद्धितः ॥१६११ ॥ अन्यस्य शक्तिलक्षणस्य संसिद्धौ न किंचित्प्रमाणमस्ति यत्प्रमाणमभावात्सर्वसामर्थ्यविरहलक्षणादेनां शक्तिं विशेषयेत् । नच तेन तथाभूतेनार्थक्रियार्थिनां ज्ञातेन किञ्चित्प्रयोजनमस्ति । रूपात्-उपयोगिनो भावस्य स्वभावादेव, अर्थक्रियासिद्धेः । यथोक्तम्-अर्थक्रियासमर्थस्य विचारैः किं तदर्थनाम् । शण्डस्य रूपवैरूप्ये कामिन्याः किं परीक्षयेति ॥ १६११ ॥ कार्यार्थापत्तिगम्यं चेदपरं शक्तिलक्षणम् । न कार्यस्यान्यथाभावाभवत्येतद्धि भावतः॥१६१२॥ स्यादेतत्-अस्त्येवान्यच्छक्तेर्लक्षणम्-यदुत नित्यं कार्यान्यथानुपपत्त्या यद्गम्यं रूपं सा शक्तिरिति, कार्यानुमेयत्वं शक्तेर्लक्षणम् । नैतयुक्तं शक्तिलक्षणम् । कस्मात् । कार्यस्यान्यथाभावात् । अन्यथापि-व्यतिरिक्तशक्तिमन्तरेण, कार्यस्योपपत्तेः । कथमित्याह-भवत्येतद्धि भावत इति । एतत्कार्य यस्मात् भावात्-पदार्थात् , भवति-उत्पद्यते, तस्मादन्यथाऽपि कार्यस्यास्तित्वसम्भव इति किं व्यतिरिक्तया शल्या कल्पितया ॥ १६१२ ॥ जलादिव्यतिरिक्तो हि प्रत्यक्षः पावकः क्षमः। दाहादौ तत्किमन्येन सामर्थ्येन प्रयोजनम् ॥ १६१३ ॥ एतदेवार्थ स्पष्टीकुर्वन्नाह-जलादीत्यादि ॥ १६१३ ॥ नैकान्तेन विभिन्ना चेच्छक्तिः साऽप्युभयात्मिका । न विरोधाद्भवेत्सा च प्रत्यक्षाऽनन्यताऽपि यत् ॥१६१४ ।। स्यादेतत्-भवत्येष दोषो यद्यस्माभिरेकान्तेन पदार्थाच्छक्तिभिन्नाऽभ्युपगम्यते ।

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832