________________
पञ्जिकासमेतः ।
कथचिदसदात्मानो यदि वाऽत्मघटादयः । कथश्चिनोपलभ्यत्वात्खरसम्बन्धिशृङ्गवत् ॥ १३७५ ॥
४०७
कथञ्चन सदात्मानः शशशृङ्गादयोऽपि च । कथञ्चिदुपलभ्यत्वाद्यथैवात्मघटादयः ॥ १३७६ ॥ त्वदीयो वापि तत्रास्ति वेश्मनीत्यवगम्यते । भावत्कपितृशब्दस्य श्रवणादिह सद्मनि ॥ १३७७ ॥ अन्यथाऽनुपपत्स्यैव शब्ददीपादिवस्तुषु । अपक्षधर्मभावेऽपि दृष्टा ज्ञापकताऽपि च ॥ १३७८ ॥ तेनैकलक्षणो हेतुः प्राधान्याद्गमकोऽस्तु नः । पक्षधर्मादिभिस्त्वन्यैः किं व्यर्थेः परिकल्पितैः ॥ १३७९ ॥
I
नाचन्द्रः शशी चन्द्रः शशीति वा पक्षः, लोके सम्प्रदायप्रसिद्धचन्द्रव्यपदेशाचन्द्रत्वेनापदिष्टत्वादिति वा हेतु:, वैधर्म्येण लोष्टादि । अयं चापरो द्विलक्षण उच्यते — पतत्कीटककृतेयं मम वेदना पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वात् । पततः कीटकस्य पतङ्गस्य स्पर्शेन प्रतिलब्ध उदय उत्पादो ययेत्यर्थः । सामान्यविवक्षा चात्रान्यपदार्थे द्रष्टव्या, तेन टान भवति । विद्यमानरूपग्रहणसाधकतमशक्तिकं चक्षुः, अनुपहतत्वे सति रूपदिदृक्षायां प्रेक्षा पूर्वकारिणा करणत्वेन व्यापार्यमाणत्वात्, रूपपरिछेदनदर्शनाद्वा । वैधर्म्येण श्रोत्रादि । तस्येति । रूपस्य । अत्र त्रिष्वपि हेतुष्वसत्याषु साधर्म्यदृष्टान्ताभावाद्दिरूपत्वम् । आत्मघटादयः कथंचिदसदात्मानः कथंचिदनुपलभ्यमानत्वात्खरविषाणवत् । अत्र वैधर्म्यदृष्टान्तो न विद्यते । घटादि: सर्वो भावात्मको राशिः कथंचिदसदात्मकत्वेन प्रतिज्ञातः, अभावश्च साधर्म्यदृष्टान्तत्वेनोपन्यस्तः । न च भावाभावव्यतिरिक्तं तृतीयमस्ति यत्र साध्यव्यवच्छेदपूर्वकः साधनव्यवच्छेदो निर्दिश्येत । खरविषाणादयो वा कथश्वित्सदात्मकाः कथविदुप'लभ्यमानत्वादात्मघटादिवत् । अत्रापि पूर्वकयैव युक्त्या वैधर्म्यदृष्टान्ताभावो योजनीयः । प्रतिपद्यमानत्वदीयपितृकमिदं गृहं श्रूयमाणत्वदीयपितृकस्वरत्वात् । अत्र किल साधर्म्यदृष्टान्तो नास्तीति द्विरूपता । तथा शब्ददीपादीनां धूमादिलिङ्गवज्ज्ञापकत्वं दृष्टमसत्यपि पक्षधर्मत्वे, न हि शब्ददीपादयो घटाद्यर्थगता धर्माः, अथच प्रतीयते शब्दादेः सकाशादर्थ इति विपक्षाभावोऽन्यथानुपपन्नत्वं चेति द्विरूपो हेतुः
1
"
"