________________
४००
तत्त्वसहः।
॥ १३७२ ॥ १३७३ ॥ १३७४ ॥ १३७५ ॥ १३७६ ॥ १३७७॥ १३७८॥ ॥ १३७९॥ तदित्यादिना प्रतिविधत्ते।
तदिदं लक्षणं हेतोः किं सामान्येन गम्यते ।
जिज्ञासितविशेषे वा धर्मिण्यथ निदर्शने ॥ १३८०॥ तत्र साध्येनाविनामावित्वं हेतोः सामान्येन वा स्याद्धर्मिविशेषपरिग्रहाद्विशेषेण वा स्यात् । धर्मिविशेषपरिग्रहाद्विशेषेऽपि जिज्ञासितविशेषसाध्यधर्मिणि वा स्यादृष्टान्तर्मिणि वेतीयन्तः पक्षाः सम्भाव्यन्ते ॥ १३८० ॥ तत्र प्रथमे पक्षे दोषमाह-सामान्येनेत्यादि ।
सामान्येन गते तस्मिन्नेवं चेत्साध्यधर्मिणि ।
हेतोः सत्त्वं प्रकाश्येत न विवक्षितसिद्धिभाक् ॥ १३८१॥ न यविनामावित्वमात्रेणैव विना पक्षधर्मत्वं शब्दे धर्मिणि चाक्षुषत्वमनित्यत्वस्य गमकं दृष्टमित्ययुक्तः प्रथमः पक्षः । न विवक्षितसिद्धिभागिति । साध्यधमिणि न विवक्षितां सिद्धिं भजेदित्यर्थः ॥ १३८१ ॥ कथमित्याह-तद्यथेति ।
तद्यथा चाक्षुषत्वस्य नाशेनाव्यभिचारिता। सामान्येन गता तच्च ध्वनौ तस्य न साधनम् ॥ १३८२॥ तस्य धर्मिणि सद्भावः ख्याप्यते चेत्तथा सति ।
सैव त्रिरूपताऽऽयाता भवतामपि दर्शने ॥ १३८३ ॥ तच्चेति । चाक्षुषत्वम् । तस्येति । नाशस्य । साधनम्-गमकम् । अथ माभूद्यथोक्तदोष इति तस्य हेतोः साध्यधर्मिणि सद्भाव आश्रीयते । एवं सति तदेव त्रिरूपत्वं हेतुलक्षणमस्मदीयं भवदर्शनेऽपि जातम् ॥ १३८२ ॥ १३८३ ॥ कथमित्याह-अन्यथेत्यादि ।
अन्यथाऽनुपपत्त्या दि(हि?) व्यतिरेकान्वयौ गती।
तस्य धर्मिणि सद्भावात्पक्षधर्मवसंश्रयः ॥ १३८४ ॥ अन्वयः-सपक्षे सत्त्वं, व्यतिरेक:-विपक्षासत्त्वम् , संश्रयणं संश्रयः, परिप्रह इति यावत् ॥ १३८४ ॥