________________
पलिकासमेतः। आचारित्यनेन तन्मताविरोधं प्रतिपादयति ।
आचार्यैरपि निर्दिष्टमीहक्संक्षेपलक्षणम् ।
प्रावधर्मस्तदंशेन व्याप्तो हेतुरितीदृशम् ॥ १३८५ ॥ + ग्राह्यधर्म इति । ग्राह्यस्य साध्यधर्मिणो धर्मः पक्षधर्म इति यावत् ॥ १३८५ ॥ अथेति द्वितीयं पक्षमाह
अथेदं लक्षणं हेतोधर्मिण्येवावगम्यते । यतः प्रमाणान्नासिद्धिः साध्यस्यापि ततो न तु ॥ १३८६ ॥ साध्यस्याप्रतिपत्तौ हि हेतोरपि न निश्चयः । अतो निरर्थको हेतुरन्यतः साध्यसिद्धितः ॥ १३८७ ॥ अन्योन्याश्रयदोषश्च हेतोः साध्यस्य निश्चये ।
द्वयोरन्यतरासिद्धावन्यस्याप्यविनिश्चये ॥ १३८८ ॥ अथ साध्यधर्मिण्येव साध्याविनाभावित्वं हेतोर्यत्तदेव हेतुलक्षणं यथाह-"विना साध्याददृष्टस्य दृष्टान्ते हेतुतेष्यते । परैर्मया पुनर्धर्मिण्यसंभूष्णोविनाऽमुना ॥ अर्थापत्तेश्च शाबर्या भैक्षवाश्चानुमानतः । अन्यदेवानुमानं नो नरसिंहवदिष्यते ॥” धमिणीति । साध्यधर्मिणि । अमुना साध्यधर्मेण विना साध्यधर्मिण्यसम्भवनशीलस्यत्यर्थः । एवं तर्हि यत एव प्रमाणाद्धेतुः साध्याविनाभूतः साध्यधर्मिणि सिद्धस्तत एव साध्यमपि सिद्धमिति व्यर्थो हेतुः । अथ साध्यं न सिद्धं तदा हेतुरपि न सिद्ध एव, यस्मात्साध्यधर्मिणि साध्याविनाभाविता हेतुलक्षणम् , तच्चाविनामावित्वं साध्यासिद्धौ न सिद्धमित्यसिद्धो हेतुः, उभयसिद्धिनान्तरीयकत्वादविनामावित्वस्य । अन्यतः प्रमाणात्साध्यसिद्धौ हेतुः सिद्ध इति चेत् , किं तदानीं हेतुना, साध्यस्य सिद्धत्वात् । हेतोः सकाशात्साध्यस्य निश्चये कर्त्तव्येऽन्योन्याश्रयदोषश्च स्यात् । कथमित्याह-द्वयोरित्यादि । हेतुसिद्धिपूर्विका साध्यसिद्धिः, तदर्थत्वाद्धेतोः, हेतोश्च साध्याविनाभावलक्षणस्य साध्यसिद्धिपूर्विका सिद्धिरिति व्यक्तमितरेतराश्रयत्वम् ॥ १३८६ ॥ १३८७ ॥ १३८८ ॥ तृतीयपक्षमाह-निदर्शनेऽपीति।
निदर्शनेऽपि तत्सिद्धौ न स्याद्धर्मिणि साध्यधीः । न हि सर्वोपसंहारात्तस्य व्याप्तिर्विनिश्चिता ॥१३८९ ॥
५२