________________
तत्त्वसहहः । · निदर्शने-समध्यधमिव्यतिरिक्त दृष्टान्तधर्मिणीत्यर्थः । तत्सिद्धाविति । हेतुसिद्धौ। एतदुक्तं भवति-यदि साध्यधर्मिव्यतिरेकेणान्यत्रैव दृष्टान्तधर्मिणि हेतोरविनाभावित्वमिष्यते, नतु सर्वोपसंहारेण सह साध्यधर्मिणा, वत्कथं साध्यधर्मिणि हेतोः सकाशात्साध्यप्रतिपत्तिः स्यात् । कथंच न स्यादित्याह-नहीत्यादि ॥१३८९॥ योऽपीयादिना साम्प्रतमुदाहरणानि दूषयते ।
योऽप्ययं हेतुरत्रोक्तः कथञ्चिदुपलम्भतः।
इति नास्त्येव विषयः सन्दिग्धोऽस्येति निष्फलः ॥१३९०॥ योऽयं कथंचिदुपलम्भत इति हेतुरुक्तः, असौ निष्फला, सन्दिग्धस्स विषयस्याभावात् । सिद्धसाध्यत्वादिति यावत् । न हि सिद्धो विषयो हेतोरिष्यते । किं तर्हि ?। संदिग्धः । तथाहि-संदिग्धे हेतुवचनात् । व्यस्तवत्सिद्धोऽपि हेतोरनाश्रय एव, सिद्धत्वात्साध्यस्येति ॥ १३९० ॥
अथ स्यात्-संदिग्ध एव हेतोरत्रापि विषयोऽस्तीति, अत आह-भावस्थेत्यादि।
भावस्य हि तदात्मखं सर्वैरेव विनिश्चितम् ।
कथंचित्तस्य साध्यत्वं किमित्थमभिधीयते ॥ १३९१ ॥ कथंचित्सदात्मकत्वं भावस्य सर्वैर्यदा निश्चितमेव तदा भवता किमित्थममिधीयते कथञ्चित्सदात्मको भाव इति । तदात्मत्वमिति । सदात्मत्वम् । भावस्थेत्युपलक्षणमभावस्थापि । कथंचित्-प्रमेयादिरूपेण सदात्मत्वं निश्चितमेवेति व्यर्थों हेतुः ॥ १३९१ ॥ अथ साङ्यादीनामसिद्धमतः साध्यत इत्याह-सर्वेत्यादि ।
सर्वभावैक्यवादेऽपि विकारात्मादिभेदतः । केनचिद्विशदात्मत्वमात्मना संप्रकाश्यते ॥ १३९२॥ सर्वभावगतं येऽपि निःखभावत्वमाश्रिताः।
तेऽपि तत्त्वत इत्यादि विशेषणमुपाश्रिताः ॥ १३९३ ॥ सर्वभावानामैक्यवादः साशमीयो यस्मिन्वादे स्थितस्तैरेव साः केनचिदात्मना खभावेन तदात्मत्वं संप्रकाश्यत एव । कथमित्याह-विकारात्मादिभेदत इति । विकारात्मा विकारखभावः । आदिशब्देन प्रकृतिरसङ्कीर्णा सुखदुःखाविखभावा