________________
पञ्जिकासमेतः ।
LLL
I
पुरुषाच परस्परतः प्रकृतेश्च मिन्ना गृह्यन्ते । येऽपीति । माध्यमिकाः । तेऽपि तस्त्वत इति सविशेषणं सर्वभावानां निरस्वभावत्वमाश्रिताः, नतु सर्वथा । दर्शन (स) - मुत्पादादीनामभ्युपगमाश्च । तत्त्वत इति । न्यायतः । आदिशब्दात्परमार्थत इत्या• देर्प्रहणम् । अवश्यं चैतदभ्युपगन्तव्यं सर्वैरेव भावस्य कथंचित्सदात्मत्वं निश्चितमिति ।। १३९२ ॥ १३९३ ॥
कथंचिदुपलभ्यत्वमन्यथा नहि सिध्यति ।
व्यवहारस्य साध्यत्वे प्रसिद्धं स्यान्निदर्शनम् ॥ १३९४ ॥ अन्यथैवमनिष्यमाणे कथंचिदुपलभ्यमानत्वादित्ययं हेतुरपि न सिध्यति । पूर्व सिद्धसाध्यता हेतुदोष उक्तः । इदानीं त्वसिद्धतोक्ता । अथ व्यवहारः साध्यते, तदा यत्र पूर्व व्यवहारः कृतस्तत्प्रसिद्धं निदर्शनं सम्भवतीति त्रिरूप एव स्यात् । अन्यथा निदर्शनाभावे सोपि व्यवहारो न सिद्ध्येत् ।। १३९४ ॥
द्वितीयप्रयोगे दूषणमाह - चन्द्रेत्यादि ।
चन्द्रत्वेनापदिष्टत्वं सपक्षेऽप्यनुवर्त्तते । कचिन्माणवके यद्वा कर्पूररजतादिके ।। १३९५ ॥
माणवक इति । पुरुषे ।। १३९५ ।।
ननु च यदि चन्द्रप्रसाधनाय त्रिरूपो हेतुः सम्भवति । कथं तर्हि योऽचन्द्रत्वं शशिनि प्रतिजानीते तं प्रति चन्द्रत्वसाधनाय लोकस्य ब्रुवतोऽनुमानाभाव आचार्येणोक्तो “यत्राप्यसाधारणत्वादनुमानाभावे शब्दप्रसिद्धेन विरुद्धेनार्थेनापोह्यते यथाऽचन्द्रः शशी सत्त्वादिति नासौ पक्ष" इत्येतेन ग्रन्थेनेत्याशङ्कयाह – चन्द्रत्वसाधन इति ।
चन्द्रत्वसाधने हेताव साधारणता भवेत् ।
प्रसिद्धिव्यतिरेके च वस्तुरूपसमाश्रये ।। १३९६ ॥
वस्तुरूपसमाश्रय इति । वस्तुसदसत्तानुरः घिनि साधने । अत्रासाधारणतोक्ता, नतु प्रसिद्धिलक्षणे हेतौ । तस्येच्छानुरोधित्वादस्त्येवान्वयः । यस्मादसौ विप्रतिपन्नः सर्वप्रतीत्यपलापी न शक्यते प्रसिद्धिलक्षणेन चंद्रत्वं प्रतिपादयितुम् । न चान्यल्लि - ङ्गमस्ति वस्तुबलप्रवृत्तं येन चंद्रत्वं शशिनि प्रतिपाद्येत, चन्द्रादिव्यपदेशस्येच्छामात्रानुरोधित्वेनावस्तुधर्मत्वादिति तं प्रत्यदृष्टान्तकमनुमानमुक्तम् । यथोक्तम् "चन्द्रतां