________________
४१२
शशिनोऽनिच्छन्का प्रतीति स वाञ्छति । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम्" इति । अचन्द्रसाधन इति कचित्पाठः। तत्रैवमिति सम्बन्धः । पूर्वपक्षवादिना य उक्तोऽचन्द्रः शशी सत्त्वादिति हेतुस्तस्मिन्नचंद्रसाधनहेतौ पूर्वपक्षवादिना प्रोके सति चन्द्रत्वसाधनाय तं प्रति प्रवृत्तस्योत्तरपक्षवादिनोऽसाधारणताऽनुमानामावे कारण-' माचार्येणोदितं “यत्राप्यसाधारणत्वादनुमानाभाव" इत्यादिना प्रसिद्धिव्यतिरिक्तं वस्तुबलप्रवृत्तं लिङ्गमाश्रित्येति ॥ १३९६ ।। तृतीयेऽपि हेतावाह-पतदित्यादि ।
पतत्कीटकृतत्वस्य न विशेषः समीक्ष्यते । - पतत्कीटकसंस्पर्शप्रतिलब्धोदयस्य च ॥ १३९७ ॥
न विशेषः समीक्ष्यत इति । हेतुप्रतिज्ञयोः । प्रतिज्ञार्थंकदेशो हेतुरिति यावत् । तथाहि-अत्र विशिष्टकीटहेतुत्वं वेदनायाः साध्यत्वेनेष्टम् , तदेव च शब्दान्तरेण हेतुनोक्तमिति न विशेषो हेतुप्रतिज्ञयोः ॥ १३९७ ।।
अथ मतम्-यदा पतत इत्येतद्विशेषणं नोपादीयते प्रतिलब्धोदयत्वादित्येव तु सामान्यं हेतुरुच्यते तदा न प्रतिज्ञार्थंकदेशतेत्याह-पतत इत्यादि ।
पततोऽस्येति कार्य हि ध्रुवं हेतोर्विशेषणम् ।
अन्यथा व्यभिचारित्वं दुर्निवारं प्रसज्यते ॥ १३९८ ॥ कीटान्तरकृतया वेदनया व्यभिचारो मा भूदिति विशेषणं कार्यम् ॥ १३९८ ॥
कार्यताव्यवहारस्तु तस्य विस्मरणे सति ।।
यदि साध्यस्त्रिरूपः स्यात्पूर्वसिद्धनिदर्शनात् ॥ १३९९ ॥ अथ कार्यकारणव्यवहारो विस्मृतं प्रति साध्यते, तथासति त्रिरूपो हेतुः स्यादमिधूमादेः प्रसिद्धकार्यकारणस्य दृष्टान्तत्वेन विद्यमानत्वात् ॥ १३९९ ॥ चक्षरूपेत्यादावाह-चक्षुष इत्यादि ।
चक्षुषो धर्मिरूपत्य संत्ता तावदनिश्चिता।
तस्याश्च साधनं युक्तं नासिद्ध्यादिप्रसङ्गतः ॥ १४०० ॥ तस्साच साधनं युक्तं नेति छेदः । असिद्ध्यादीत्यादिशब्देन व्यभिचारविरोधयोग्रहणम् । सवायां साध्यायां सर्वो हेतुर्दोषत्रयं नातिवर्तते । तथाहि भावे धर्मे हेतावसिद्धता, उमयधर्मेऽनैकान्तिकता, अभावधर्मे विरुद्धता । यथोक्तम्-~-"नासि