________________
पलिकासमेतः। द्धर्भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धो भावश्च सा सत्ता साध्यते कथम् ॥” इति । अथ चक्षुषि धर्मिणि चक्षुर्विज्ञानोत्पादनशक्तिः साध्यते, तदापि शक्तिः सत्तेत्यादेः पर्यायत्वात्तत्साधने सत्तासाधनप्रसङ्गः । व्यतिरेकेऽपि तस्या अ'तीन्द्रियत्वेनासिद्धत्वादाश्रयासिद्धो हेतुः स्यात् । एवं रूपग्रहणादित्ययमप्यपक्षधर्मत्वादसिद्धो द्रष्टव्यः॥ १४०० ॥ कथं तर्हि भवतामपि चक्षुरादीन्द्रियसिद्धिरित्याह-किन्त्वित्यादि ।
किन्तु रूपादिभावेऽपि चक्षुर्ज्ञानं न जायते। । ।
कदाचित्तेन तन्मात्रं न हेतुरिति गम्यते ॥१४०१॥ कदाचिदिति । निमीलितलोचनावस्थायाम् । न ह्यस्मामिराहत्य चक्षुरादीदन्तया साध्यते, अपितु ज्ञानं केषुचिद्रूपादिषु सत्खन्वयव्यतिरेकावनुभवदृश्यते, तस्य कारणान्तरापेक्षिता तन्मात्रासम्भविता च साध्यत इति तदेव ज्ञानं धर्मीति नासिध्यादिदोषः । यत्तत्कारणान्तरं तच्चक्षुरिति ब्यवहियते । सिद्धान्ताश्रयस्तु भेदव्यवहारः ॥ १४०१॥
स्यादेतत्-भवतु यथोक्तया नीत्या विज्ञानस्य धर्मित्वम् , तथापि द्विरूप एव हेतुरित्याह-वहेत्विति ।
खहेतुनियतोद्भूतिरकुरादिश्च विद्यते।
तस्मिन्दृष्टान्त एवं च वैलक्षण्यमतिस्फुटम् ॥ १४०२॥ वहेतुनियता-हेतुप्रतिबद्धा, उद्भतिर्यस्यासौ स तथोक्तः । एवंभूताः स्वकारणायत्तजन्मानोऽङ्कुरादयः कादाचित्का दृष्टान्तत्वेन सम्भवन्तीति यावत् । एवं च प्रयोगः कार्यः । ये यत्सन्निधाने कादाचित्कास्ते न तन्मात्रसम्भविनः, कारणान्तरसव्यपेक्षकाश्च, तद्यथा-सत्वपि क्षित्यादिषु बीजसन्निधानासन्निधानाभ्यामन्वयव्यतिरेकिणोऽकुरादयः, सत्स्वपि रूपादिषु कादाचित्कं चक्षुर्ज्ञानं निमीलितानिमीलितावस्थायामिति व्यापकविरुद्धोपलब्धिः प्रतिषेधे । विधौ तु खभावहेतुः॥१४०२॥ कथंचिदित्यादावाह-कथंचिदिति ।
कथंचिदसदात्मत्वसाधने च घटादिषु ।
पूर्ववतुवैफल्यमप्रसिद्धिश्च दृश्यते ॥१४०३॥ अत्रापि सिद्धसाध्यता, केनचित्प्रकारेण घटादीनामसत्त्वस्य सिद्धत्वात् । अथ न