________________
तस्वसङ्ग्रहः।
सिद्धम्, अनुपलभ्यमानत्वादित्ययं हेतुरपि न सिध्यतीत्यसिद्धो हेतुरिति पूर्ववद्वाच्यं दूषणं यथा सदात्मत्वसाधने हेतावुक्तम् ॥ १४०३ ॥ यदुवं विपक्षाभावाद्वैधर्म्यदृष्टान्तो नास्तीत्यत्राह-अस्ति चेत्यादि ।
अस्ति चात्रापि विस्पष्टं वैधम्र्येण निदर्शनम् । तदेव तेषां खं रूपं प्रयाति हि विपक्षताम् ॥ १४०४ ॥ कथंचन सदात्मत्वसाधनेपि निरात्मसु ।
इष्टसिद्धिरसिद्धिश्च वैधर्माप्तिस्तथैव च ॥ १४०५ ॥ येन रूपेणोपलभ्यन्ते घटादयस्तेन रूपेण सदात्मत्वं तेषामिष्टमेव यदा तदा स एव स्वभावस्तेषां वैधर्म्यदृष्टान्तो भवेदेव । तस्मिन्स्वभावेऽनुपलभ्यमानत्वस्य हेतो. निवृत्तत्वात् । एवं कथंचनेत्यत्रापि प्रयोगे तुल्या इष्टसिद्ध्यादयः । निरात्मखिति । अभावेषु।वैधाप्तिरिति वैधय॑स्य साध्यनिवृत्तिलक्षणस्य साधनाभावेनाप्तिाप्तिः । तथैवेति । स्वभावस्य वैधय॑सम्भवेन ॥ १४०४ ॥ १४०५ ॥ त्वदीयेत्यादावाह-पितृशब्देत्यादि ।
पितृशब्दश्रुतेयोऽपि वेश्मनः प्रतिपाद्यते । पितृसंबन्धिता तत्र व्यक्ती हेतुस्त्रिलक्षणः ॥१४०६ ॥ कचिद्विप्रतिसंबद्धः खरः प्रागुपलक्षितः।
तस्याननुभवे पूर्व दुर्द्धरा हेत्वसिद्धता ॥ १४०७॥ तस्येति । पितृसम्बद्धस्यान्यत्र कचित्प्रदेशेऽननुभवे सत्यसिद्धो हेतुः स्यात् ॥ १४०६ ॥ १४०७ ॥ यस्मिन्नित्यादिना तदेव त्रैरूप्यमादर्शयति ।
यस्मिन्प्रागुपलब्धश्च नोपलब्धश्च यत्र सः। अन्वयो व्यतिरेको वा विस्पष्टं तत्र दृश्यते ॥ १४०८॥ शब्दस्तु ज्ञापयत्यर्थ नैव बाह्यं कथंचन । अन्यथासम्भवाभावाद्विलक्षागमकस्त्वसौ ॥१४०९॥ तस्यां च प्रतिपाद्यायां वैलक्षण्यमतिस्फुटम् । विवक्षासंमुखीभावे न हि शब्दः प्रयुज्यते ॥ १४१० ॥
दीपस्तु ज्ञापको नैव नीलादेर्लिङ्गभावतः। ... ज्ञानोत्पादनयोग्यस्य जननातु तथोच्यते ॥१४११॥