________________
पलिकासमेतः।
४१५ ज्ञापके लिङ्गरूपे च पक्षधर्मादि चिन्त्यते। अन्यथा चक्षुरादीनां करमादेतन्न चोयते ॥१४१२॥ अन्यथानुपपत्त्याऽपि चाक्षुषत्वं न साधकम् । पक्षधर्मवियोगेन क्लीवास्तेनैकलक्षणाः ॥ १४१३ ॥ एकरूपतयोक्तानां द्वैरूप्यं चोपलक्षितम् । द्विरूपवेन चोक्तानां त्रैरूप्यं पक्षधर्मतः ॥ १४१४ ॥ अन्यथाऽनुपपत्त्यैव चाक्षेपादिति चेन्न तत्।
शब्दादावन्यथापीष्टे चाक्षुषत्वेऽथ नास्त्यसौ ॥ १४१५॥ शब्दस्य बाह्यार्थापेक्षयाऽन्यथानुपपन्नत्वमसिद्धमिति तं प्रत्यलिङ्गत्वमिच्छामात्रवृत्तित्वात्तस्य, अथ बुद्धिपरिवर्तिनमर्थमपेक्ष्य, तदा त्रैलक्षण्यमस्त्येव धूमस्येव, यतो विवक्षाया असम्मुखीभावे शब्दस्याप्रयोगात्तत्कार्यत्वाद्धूमवजातवेदसे गमक इष्ट एव, नतु वाचकरूपेण । प्रदीपस्तु लिङ्गद्वारेण धूमवन्न ज्ञापक इष्टः । किं तर्हि । विज्ञानजननयोग्यघटाछुत्पादनेन ज्ञापको रूढो नतु लिङ्गत्वेनेति तस्य लिङ्गभूतस्य पक्षधर्मत्वादिचिन्ता न युक्तैव । अन्यथा चक्षुरादीनामपि पक्षधर्मत्वादि चोदनीयं स्यात् । अन्यथेत्यादि प्रकृतार्थोपसंहारः । यतश्चाक्षुषत्वमनित्यत्वाविनाभाव्यपि शब्दे तदनित्यत्वं न साधयति, यतश्चावश्यं सर्वत्र पक्षधर्मत्वमाश्रयणीयम् , अतः पक्षधमैत्वाश्रयणादेकरूपतयोक्तानां द्वैरूप्यमावश्यकं, द्विरूपतया चोक्तानां त्रैरूप्यं तत एव पक्षधर्मत इत्येकलक्षणा एव क्लीबा हेतवः । न चैतद्वक्तव्यमन्यथानुपपत्त्यैव पक्षधमादय आक्षिप्ता अतः पृथक् स्वातव्येण न तेषां लक्षणत्वमिति । यतः पक्षधर्मत्व. मन्तरेणाप्यन्यथानुपपन्नत्वमस्तीति स्वयमेवोक्तम्-"अन्यथानुपपत्त्यैव शब्दादिवस्तुवपक्षधर्मभावेऽपि दृष्टा ज्ञापकतापि चे"ति । चाक्षुषत्वे चानित्यत्वान्यथानुपपन्नेप्यसौ पक्षधर्मो नास्तीत्यनेकान्त एव ॥ १४०८ ॥ १४०९ ॥ १४१० ॥१४११॥ ॥ १४१२ ॥ १४१३ ॥ १४१४ ॥ १४१५ ॥ __ यदुक्तं स श्यामस्तत्पुत्रत्वादित्येष त्रिलक्षणेऽपि न निश्चित्यै प्रवर्तत इत्यत्राहतत्पुत्रेत्यादि।
तत्पुत्रत्वादिहेतूनां सन्दिग्धव्यतिरेकातः । . न त्रैलक्षण्यसद्भावो विजातीयाविरोषतः ॥ १४१६ ॥