________________
४१६
तत्त्वसङ्ग्रहः ।
तत्पुत्रश्च भविष्यति नच श्याम इति नात्र कश्चिद्विरोध इति संदिग्धविपक्षव्यावृतिकत्वान्नायं त्रिलक्षण इत्यसिद्धो दृष्टान्तः ॥ १४१६ ॥
स्यादेतत् — अस्त्येव विरोधः । कारणाभेदे सति यदि कार्य मिद्येत निर्हेतुकं स्यादित्याह — कर्मेत्यादि ।
कर्माहारादिहेतूनां सर्वथापि विशेषतः । सम्भाव्यतेऽन्यथाभावस्तत्पुत्रत्वेऽपि तस्य हि ॥ १४१७ ॥ नायं खभावः कार्य वा दृश्यस्यादृष्टिरेव वा । नच तद्व्यतिरिक्तस्य भवत्यव्यभिचारिता ॥ १४१८ ॥ शुभादिकर्मविशेषादुष्णशीताद्याहारावस्थाभेदाच्चान्यथाभावो गौरादित्वं संभाव्यत इति कुतो विरोधः, कारणभेदस्य सिद्धत्वात् । अपिच तत्पुत्रत्वादिति नायं स्वभाव - हेतुर्यथा कृतकत्वं, नहि कृतकत्वस्यान्यत्तत्त्वमस्ति मुक्त्वाऽनित्यत्वम् नन्वेवं तत्पुत्रत्वस्यान्यः स्वभावो नास्ति, यतः पंचोपादानस्कंधात्मकस्य कंचिदपेक्ष्य तत्पुत्र इति व्यपदेशो नतु श्यामत्वस्य । नापि कार्यहेतुः । कार्यकारणभावासिद्धेः । नाप्यनुपलब्धिर्विधिविषयत्वात् । विरोधाभावाच्च न श्यामेतरवर्णाभावसिद्धिः । नचैतद्व्यतिरिक्तं लिङ्गमस्त्यन्यत्र प्रतिबन्धाभावात् । नच प्रतिबन्धमन्तरेण गमकत्वमतिप्रसङ्गातस्मान्नायं हेतुर्नापि त्रिलक्षण इति कुतोऽव्यभिचारः । दृश्यस्यादृष्टिरुपलब्धिलक्षणप्राप्तानुपलब्धिः || १४१७ ॥ १४१८ ॥
ननु चेत्यादिनाऽव्यापितां लक्षणदोषमाह
-
ननु चाव्यभिचारित्वमन्येषामपि दृश्यते । कुमुदानां विकासस्य वृद्धिश्च जलधेर्यथा ॥ १४१९ ॥ लिङ्गं चन्द्रोदयो दृष्ट आतपस्य च भावतः । छायायाः परभागेषु सद्भावः संप्रतीयते ॥ १४२० ॥ तमस्युल्मुकदृष्टौ च धूम आरात्प्रतीयते । कृत्तिकोदयतञ्चापि रोहिण्यासत्तिकल्पना ॥ १४२१ ॥
यथा चन्द्रोदयात्कुमुदविकाससमुद्रवृद्ध्योरनुमानम् । आदिग्रहणात्सूर्योदयात्पद्मविकाशस्य, आतपसद्भावात्पर्वतादिषु परभागे च्छायानुमितिः, एवं दूरात्तमस्युल्मुकमर्द्धदुग्धकाष्ठखण्डकं दृष्ट्वा धूमप्रतीति:, तथा कृत्तिकानक्षत्रोदयाद्रोहिणी नक्षत्रस्यास