________________
पत्रिकासमेतः।
४१० मत्वं प्रतीयते यतोऽश्विनीमारभ्य यथापाठं क्रमेणैव नक्षत्राणामुदय इति प्रसिद्धम् । न चास्य सर्वस्य हेतुत्रयान्तर्भावोऽस्तीति तत्किमुच्यते न तद्व्यतिरिक्तस्य भवत्यव्य. मिचारितेति ॥ १४१९ ॥ १४२० ॥ १४२१ ॥ , अत्रोत्तरमाह-तदत्रेत्यादि ।।
तदन हेतुधर्मस्य तादृशोऽनुमितैर्मताः। जातास्तदेककालास्ते सर्वे बोधादयोऽपरे ॥१४२२ ॥ कार्यात्कारणसंसिद्धिरियमेवंविधानतः।
सम्बन्धानुपपत्तौ च सर्वस्यापि गतिर्भवेत् ॥ १४२३ ॥ यस्मात्कारणात्ते बोधादयः-कुमुदविकाशादयो जाता:-उत्पन्नाः । किविशिष्टाः ? । तदेककालाः-तैश्चन्द्रोदयातपोल्मुकैरेककालास्तादृशस्य हेतुधर्मस्य-हेतुविशेषस्यानुमितैर्मताः । एतदुक्तं भवति–यदेव कारणं चन्द्रोदयादीनां कुमुदबोधादिसमानकालोत्पन्नानां तदेव कुमुबोधादिषु सहकारिकारणतां प्रतिपद्यत इति वे चन्द्रोदयादयस्तथाभूतं स्वकारणमनुमापयन्तोऽर्थान् समानकालभावीन्यपि कुमुबोधादीन्यनुमापयन्ति, नतु साक्षादित्येवंविधं कार्यहेतावेवान्तर्भवतीति । अवश्यं चैतद्वोद्धव्यम्-यदि पुनरप्रतिबन्धादेव गमयन्ति तदा यत्किंचिद्गमयेयुरप्रतिबद्धत्वेनाविशिष्टत्वात् । तस्मादत्रापि प्रतिबन्धो वाच्यः । स च यथोक्तकार्यकारणभावलक्षण एव भवति ॥ १४२२ ॥ १४२३ ॥ रोहिण्यासत्या तर्हि कृत्तिकोदयस्य कः प्रतिबन्ध इत्याह-प्रभञ्जनेत्यादि ।
प्रभञ्जनविशेषश्च कृत्तिकोदयकारणम् । यः स एव हि सन्तत्या रोहिण्यासत्तिकारणम् ॥१४२४॥ हेतुधर्मप्रतीतिश्च तत्पतीतिरतो मता।
तत्प्रतीतिः खतनाऽस्ति न तु काचिदिहापरा ॥ १४२५ ॥ प्रभचनो वायुः । अत्राप्येकसामध्यधीनत्वाद्धेतुधर्मानुमानमिति । यथोक्तम्"एकसामध्यधीनत्वं स्वरूपादेस्सतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥" इति ॥ १४२४ ॥ १४२५ ॥
अथ प्रतिविम्याद्विम्बस्स या गतिस्तस्या न कचिदन्तर्भावोऽत्यवस्तुत्वात्प्रतिकिम्बस्य । तस्मादग्यापि लक्षणमित्याशझ्याह-लिङ्गाचेत्यादि ।