________________
तत्वसङ्ग्रहः ।
लिङ्गाच प्रतिविम्याख्यादनुमानं प्रवर्त्तते । यद्विम्बविषयं युक्तं तत्रान्यत्कार्यलिङ्गजात् ॥ १४२६ ॥ सहैकन्नेत्यादिना चोदकाभिप्रायमाशङ्कते ।
सहँकत्र द्वयासत्वान्न वस्तुप्रतिबिम्बकम् ।
तत्कथं कार्यता तस्य युक्ता चेत्पारमार्थिकी ॥ १४२७ ॥ अवस्तुत्वे हेतुः सहैकत्र द्वयासत्वादिति । यत्रैव प्रदेशे आदर्शरूपं दृश्यते प्रतिबिम्बकं च तत्रैव, न चैकत्र प्रदेशे रूपद्वयस्यास्ति सहभावः, सप्रतिघत्वात्, अतः सहैकत्र द्वयो रूपयोः सत्त्वं न प्राप्नोति । तस्माद्भान्तिरियम् । अथवा - - सहैकत्र द्वयासत्त्वादिति । कतमस्य द्वयस्य ? | आदर्शतलस्य चन्द्रप्रतिबिम्बस्य च । अन्यत्रैव देशे आदर्शतलं भवति, अन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् । अन्यन्त्र चोत्पद्यमानं किमित्यन्यत्रोपलभ्यते । अतो नास्त्येव किंचिद्वस्तुभूतं प्रतिबि - म्बकं नाम । सामग्र्यास्तु तस्यास्तादृशः प्रभावोऽयं तथा तद्दर्शनम् । अचिन्त्या हि धर्माणां शक्तिप्रभेदा इति ॥ १४२७ ॥
rea
मूर्त्तेत्यादिना परिहरति ।
मूर्त्तस्य प्रतिविम्बस्य यद्यप्यस्य न वस्तुता । तदाभासं तु विज्ञानं केनावस्तु भविष्यति ॥ १४२८ ॥ तस्यैव चात्र लिङ्गत्वं कार्य चेष्टं तदेव हि । विम्बाधिपत्यादेतद्धि निरालम्बं प्रवर्त्तते ॥ १४२९ ॥ ज्ञानमेवात्र तथाभूतं कार्य लिङ्गमभिप्रेतं, नतु बाह्यं प्रतिबिम्बाख्यं वस्तु || १४२८॥ ।। १४२९ ॥
9
कथमुक्तं त्रिरूपलिङ्गवचनं परार्थ पुनरुच्यत इति यावता पक्षनिगमोपनयनचनमप्यन्यैः परार्थमनुमानं कीर्त्तितम् । एतदेव दर्शयन्नाह - प्रतिज्ञेत्यादि । प्रतिज्ञादिवचोऽप्यन्यैः परार्थमिति वर्ण्यते ।
असाघनाङ्गभूतत्वात्प्रतिज्ञाऽनुपयोगिनी || १४३० ॥
असाधनेत्यादिना प्रतिविधत्ते । सिद्धिः साधनं, प्रमेयाधिगतिरिति यावत्, तस्याङ्गभूतम् ———कारणम्, तस्य प्रतिषेधो ऽसाधनाङ्गभूतत्वम् । तस्मादसाधनाङ्गभूतत्वादनुपयोगिनी न प्रयोक्तव्येत्यर्थः । अनुपयोगिनी - अकारणभूतेतिव्याख्याने प्रतिज्ञार्थैकदेशः स्यात् ॥ १४३० ॥