________________
पत्रिकासमेतः। कयमसाधनाङ्गमित्याह-असम्बन्धादित्यादि ।
असम्बन्धान्न साक्षाद्धि सा युक्तार्थोपपादिका। - असक्तसूचनानापि पारम्पर्येण युज्यते ॥ १४३१ ॥ साध्यसाधनधर्मस्य विषयस्योपदर्शनात् । दृष्टान्तपदवत्त्वेष साधनाङ्गं यदीप्यते ॥१४३२॥ अभ्यनुज्ञादिवाक्येन नन्वत्र व्यभिचारिता।
निष्फलं च तदा यत्र विषयस्योपदर्शनम् ॥ १४३३ ॥ असक्तसंसूचकत्वं तु साध्यस्यैवामिधानात् । एतदुक्तं भवति-शब्दानामर्थेन सह सम्बन्धाभावान्न तावत्साक्षादुपयुज्यते, नापि हेतुवचनवत्पारम्पर्येण, सक्तासंसूचकत्वादिति । यथोक्तम्-"तत्पक्षवचनं चक्रुरभिप्रायनिवेदने । प्रापणं संशयोत्पत्तेस्ततः साक्षान साधनम् ॥साध्यस्यैवामिधानेन पारम्पर्येण नाप्यलम् ॥” इति । केचिन्मन्यन्ते-साध्यसाधनधर्मयोर्विषयोपदर्शनार्थमनवयवभूताऽपि सती दृष्टान्तपदवत्प्रतिज्ञा प्रयोक्तव्येति । "यतो रूपद्वयं शेषं दृष्टं तेन प्रदर्श्यते” इति वचनात् । दृष्टान्तपदं पृथगनवयवभूतमपि पक्षधर्मव्यतिरिक्तरूपद्वयप्रदर्शनार्थमेव प्रयुज्यत इति । तान्प्रत्याह-दृष्टान्तेत्यादि । अभ्यनुज्ञावाक्यम्-एवं कुरु शब्दमनित्यं साधयेति । आदिशब्देनाज्ञाभ्यर्थनावाक्यं गृह्यते । एवम्भूतस्यापि वाक्यस्य प्रयोगनिर्देशार्थ निर्देशः स्यात्, नोमिरपि विनाऽकाण्ड एव साधनस्य प्रवृत्तिः सम्भवतीति । निष्फलमिति । विनापि तेन साध्यप्रतीतेः । तथाहि-यत्कृतकं तत्सर्वमनित्यं कृतकश्च शब्द इत्येतावन्मात्रे प्रोक्तेऽनित्यः शब्द इति प्रतीतिर्भवत्यन्तरेणापि प्रतिज्ञावचनम् ॥ १४३१ ॥ १४३२ ॥ १४३३ ॥
सपक्षादिव्यवस्था चेत्कथं पक्षाप्रयोगतः।
नातस्बैरूप्यमप्यस्ति तदपेक्षानिबन्धनम् ॥ १४३४॥ सपक्षादिव्यवस्था तर्हि कथम् । तथाहि-साध्यधर्मसामान्येन समानोऽर्थः सपक्ष इत्युच्यते । तदभावः प्रसाधितश्चासपक्ष इति । असति हि प्रतिज्ञानिर्देशे तदपेक्षानिबन्धन सपक्षाश्रयनिबन्धनं त्रैरूप्यमपि नास्तीति सर्वमालूनविस्ती(की ) स्वादिति ॥ १४३४॥
नेत्यादिना प्रतिविपत्ते।